________________ // 2 // // 3 // // 4 // जिनसमुदयं विश्वाधारं हरन्तमिहाङ्गिनां भवमदरदं रुच्याऽकान्तं महामि तमोहरम् / विनयमधिकं कारंकारं कुलादिविशिष्टताभवमदरदं रुच्या कान्तं महामितमोहरम् शुचिगमपदो भङ्गैः पूर्णो हरन् कुमतापहोऽनवरतमलोभावस्थामाश्रयन्नयशोऽभितः / जन ! तव मनो यायाच्छायामयः समयो गलनवरतमलो भावस्थामाश्रयं नयशोभितः सुकृतपटुतां विघ्नोच्छित्या तवाऽरिहतिक्षमाऽपविफलकरा द्युत्याऽगेहा घनाघनराजिता / वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत्पविफलकरा द्युत्यागेहा घनाघनराजिता . 12 श्रीवासुपूज्यजिनस्तुतयः पद्मोल्लासे पटुत्वं दधदधिकरुचिर्वासुपूज्यातुल्यो लोकं सद्धीरपाताशमरुचिरपवित्रासहारिप्रभाऽव / लुम्पन् स्वै गोविलासैर्जगति घनतमो दुर्नयध्वस्ततत्त्वाऽऽलोकं सद्धीर पाता शमरुचिरपवित्रास ! हारिप्रभाव! लोकानां पूरयन्ती सपदि भगवतां जन्मसंज्ञे गतिर्मे, हृद्या राजी वनेऽत्राभवतुदमरसार्थानताऽपातमोहा / साक्षात् किं. कल्पवल्लिविबुधपरिगता क्रोधमानातिमायाहृद् या राजीवनेत्रा भवतु दमरसाऽर्थानतापा तमोहा उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूषपानाऽऽस्वादे शस्तादरातिक्षतशुचि सदनेकान्त ! सिद्धान्त ! रागः / // 1 // // 2 // - 205