________________ // 2 // पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा- . स्तीर्थेशस्तरसा महोदितभयाः कान्ताः सदा शापदम् जैनेन्द्रं स्मरताऽतिविस्तरनयं निर्माय मिथ्यादृशां सङ्गत्यागमभङ्गमानसहितं हृद्यप्रभा विश्रुतम् / / मिथ्यात्वं हरदूजितं शुचिकथं पूर्णं पदानां मिथः, सङ्गत्या गमभङ्गमानसहितं हृद्यप्रभावि श्रुतम् या जाड्यं हरते स्मृताऽपि भगवत्यम्भोरुहे विस्फुरत्सौभाग्या श्रयतां हिता निदधती पुण्यप्रभाविक्रमौ। वाग्देवी वितनोतु वो जिनमतं प्रोल्लासयन्ती सदाऽसौ भाग्याऽऽश्रयतां हितानि दधती पुण्यप्रभावि क्रमौ // 4 // . 2 अजितजिनस्तुतयः मुनिततिरपि यं न रुद्ध(शीर्ण)मोहा शमजितमारमदं भवन्दिताऽऽपत्। भज तमिह जयन्तमाप्तुमीशं शमजितमारमदम्भवन् ! दितापत् // 1 // हर रुचिर ! ददज्जिनौघ ! तं द्राक् परमतमोहर! यं भयानि दानम् / नियतमुपगता भवे लभन्ते परमतमोहरयं भया निदानम् // 2 // नयगहनमतिस्फुटानुयोगं जिनमतमुद्यतमानसा ! धुतारम् / जननभयजिहासया निरस्ताजि नमत मुद्यतमानसाधुतारम् // 3 // पविमपि दधतीह मानसीन्द्रैर्महितमदम्भवतां महाधिकारम् / ... दलयतु निवहे सुराङ्गनानामहितमदं भवतां महाधिकारम् // 4 // 3 श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं ददत् त्वं भाविनि भावारवारवारण ! विश्वम् / वासवसमूहमहिताऽभाविनिभाऽवाऽरवारवाऽरण ! विश्वम् // 1 // यद्धर्मः शं भविनां सन्ततमुदितोदितोऽदितोदारकरः। . स जयतु सार्वगणः शुचिसन्ततमुदितोऽदितोदितोऽदारकरः // 2 // 200