________________ तत्पादपद्ममधुपः श्रीपद्मविजयानुजः / सत्तर्कमकरोदेनं यशोविजयवाचकः // 17 // ॥श्री पुण्डरीकतीर्थपतिस्तोत्रम् // आदिजिनं वन्दे गुणसदनं, सदनन्तामलबोधं रे। बोधकतागुणविस्तृतकीर्ति, कीर्तितपथमविरोधं रे // 1 // रोधरहितविस्फुरदुपयोगं, योगं दधतमभङ्गं रे। भङ्गनयव्रजपेशलवाचं, वाचंयमसुखसङ्गं रे // 2 // सङ्गतपदशुचिवचनतरङ्ग, रङ्गं जगति ददानं रे। दानसुरद्रुममञ्जुलहृदयं, हृदयङ्गमगुणभानं रे // 3 // भानन्दितसुरवरपुन्नाग, नागरमानसहंसं रे / हंसगति पञ्चमगतिवासं, वासवविहिताशंसं रे // 4 // शंसन्तं नयवचनमनवमं, नवमङ्गलदातारं रे। तारस्वरमघघनपवमानं, मानसुभटजेतारं रे // 5 // इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदाच्छीमद्यशोविजयवाचकपुङ्गवेन / श्रीपुण्डरीकगिरिराजविराजमानो, मानोन्नतानि वितनोतु सतां सुखानि // ऐन्द्रस्तुतयः // 1 ऋषभजिनस्तुतयः ऐन्द्रव्रातनतो यथार्थवचनः प्रध्वस्तदोषो जगत्, सद्योगीतमहोदयः शमवतां राज्याधिकाराजितः / आद्यस्तीर्थकृतां करोत्विह गुणश्रेणीर्दधन्नाभिभूः, सद्यो गीतमहोदयः शमवतां राज्याऽधिकाराजितः // 1 // उद्भूतानतिरोधबोधकलितत्रैलोक्यभावव्रजास्तीर्थेशस्तरसा महोदितभयाऽकान्ताः सदाशापदम् / 19