________________ न यन्नाम ब्रूते समयविगमहीपरवशाः, . हृदा तु स्नेहं न त्यजति विपुलं यद्गुणकृतम्। / / अनेकान्तस्याग्रे कलितविनया मौनरचनादिदानी सञ्जाता ननु नववधूर्वादिपरिषद् * // 10 // स्मिताक्षीणां मुक्तौ सकलविदि भुक्तौ च न भजेन्मुनीन्दूनां धर्मोपकरणविधौ चापि भजनम् / विहस्तो दिग्वासा यदि मदिरयेवावृतमतिः, प्रसिद्धैः सिद्धान्तैस्तदहह महद्वैरमुदयेत् // 11 // क्रियायां ज्ञाने च व्यवहतिविधौ निश्चयपदेऽपवादे वोत्सर्गे कलितमिलितापेक्षणसु(मु)खैः / हतैकान्तध्वान्तं मतमिदमनेकान्तमहसा, पवित्रं जैनेन्द्रं जयति सितवस्त्रैर्यतिवृषैः // 12 // इमं ग्रन्थं कृत्वा विषयविषविक्षेपकलुषं, फलं नान्यद् याचे किमपि भवभूतिप्रकृतिकम्।. इहाऽमुत्रापि स्तान्मम मतिरनेकान्तविषये, ध्रुवेत्येतद् याचे तदिदमनुयाचध्वमपरे सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि। सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा वाचकपरिषत्तिलक-श्रीमत्कल्याणविजयगणिशिष्याः। .. श्रीलाभविजयविबुधा, अभवन्विद्यावतां धुर्याः // 15 // श्रीजीतविजयविबुधा-स्तेषां शिष्यास्तपागणप्रथिताः। तेषां सतीर्थ्यमुख्याः श्रीनयविजयाभिधा विबुधाः . // 16 // 198 // 13 // // 14 //