________________ // 4 // मिथो द्राग् युध्यन्ते महिषसदृशा ये परनयाः, प्रयातारः खेदं त इह बहुधा जर्जरतराः / अनेकान्तो द्रष्टा पुनरवनिपालः प्रकृतितः, परावृत्तिं नैभ्यो व्रजति परिपूर्णाभिलषितः विरुद्धैः सत्त्वाद्यैरिह बहुगुणैर्गुम्फिततर्नु, प्रधानं यो वाञ्छत्यखिलजगतः सर्गनिपुणम् / अनेकान्तं सांख्यः स कथमवमन्येत विलसेत्, प्रमाणाक्षक्रीडारसिकहृदयश्चेत्परिषदि अबद्धं तत्त्वेन व्यवहृतिवशाद्बद्धमुपयन्, परं ब्रह्म व्यष्ट्या जगदपि समष्ट्या च विविधम् / तपस्वी वेदान्ती वदतु(ति) वदनेनाऽद्वयकथामनेकान्तं कान्तं स्मरति हृदये न त्वविकलम् प्रमाणं नीलादौ क्षणपरिचयादौ च न तथा, वदन्नेकं ज्ञानं सुगततनयश्चित्रमपि च। अनेकान्तं स्वान्ते स्मरति यदि नो तन्निजमतग्रहावेशक्लेशः क्षपयति तदीयं गुणगणम् घटे चित्रं रूपं पृथगपि च नीलादिकमपि, ब्रुवाणौ हेतुं वाप्यजनकमपीष्टान्यविधया / अनेकान्तं छेत्तुं बत कथमुभौ यौगकणभुक्- ' तनूजौ स्वारूढद्रुमविटपतुल्यं प्रभवतः परोक्षं मेयांशे किमपि मतिमात्रंशविषयेऽपरोक्षं चैकं यः प्रभणति गुरुर्ज्ञानमवशः / परोऽपि द्वैरूप्यं जगति कलयन् जैमिनिसुतः, कुतः स्याद्वादं यः स्पृहयति न रुच्यार्थविमुखः 199 // 7 // // 8 // // 9 //