________________ जीयाः पीयूषवीचीनिचयपरिचितिं प्राप्य माधुर्यधुर्यां, वाचं वाचंयमेभ्यो ननु जननजरात्रासदक्षां ददानः / चेतस्युत्पन्नमात्रां निजपदकमलं भेजुषां याचकानां, याच्यां सम्पूर्य कल्पद्रुमकुसुमसितैर्व्याप्नुवन् द्यां यशोभिः // 98 // ॥अनेकान्तव्यवस्थाप्रकरणस्य मुगलप्रशस्ती॥ ऐन्द्रस्तोमनतं नत्वा, बीतरागं स्वयम्भुवम् / अनेकान्तव्यवस्थायां, श्रमः कश्चिद् वितन्यते जिनमतमतिगम्भीरं, नयलवविद्भिः परैरनन्तनयम्। ... आघ्रातुमपि न शक्यं, हरिणेन व्याघ्रवदनमिव // 2 // वस्तुधर्मो ह्यनेकान्तः, प्रमाणनयंसाधितः / अज्ञात्वा दूषणं तस्य, निजबुद्धेविडम्बनम् विना यं लोकानामपि न घटते संव्यवहतिः, समर्था नैवार्थानधिगमयितुं शब्दरचना / वितण्डा चण्डाली स्पृशति च विवादव्यसनिनं, नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे कथायां लुप्यन्ते वियति बत तारा इव रखौ, नयाः सर्वे दीप्ता अपि समुदिते यत्र सहसा / उदासीने त्वब्धाविव जलतरङ्गा बहुविधाः, समन्तालीयन्ते श्रयत तमनेकान्तमनिशम् अनेकान्तं वादं यदि सकलनिर्वाहकुशलं, मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा / तदा किं नो भावी बहुलकलिकौतूहलवशाद् / घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः // 3 // // 1 // // 2 // 16