________________ भर्ता तर्ता भवाब्धेर्निजसविधजुषां तारणेऽपि प्रभूष्णुर्भर्ता कर्ताऽस्तु शङ्केश्वरनगरमणिर्भावुकानां ममासौ // 91 // जीया:स्वर्णाद्रिचूलाद्यतुलतरकचस्यूतजीमूतमाला, कालिन्दीमध्यवेल्लत्कुवलयवलयश्यामलच्छायकायः / कायोत्सर्गावलम्बे शठकमठहठोन्मुक्तमेघोपलोपच्छत्रीभूताहिनाथस्फुटमणिकिरणश्रेणिविद्योतिताशः // 92 // जीयाश्चान्द्रीयरोचिनिचयसितयशः क्षीरपाथोधिमज्ज- . द्ब्रह्माण्डोड्डीनबिन्दूभवदमरनदीनीरपूतान्तरिक्षः / जृम्भत्कुन्दावदातत्रिदशपतिकराम्भोजसंवीजिताभ्यां, चारुभ्यां चामराभ्यां त्रिभुवनविभुतां व्यञ्जितां बिभ्रदुच्चैः // 93 // जीयाः सज्ज्ञानभास्वन्मुकुरपरिसरक्रीडिताऽऽकारभारं, विश्वं गृह्णन् समग्र प्रतिसमयभवद्भरिपर्यायभूमिम् / बिन्दूभूताहमिन्द्राद्यखिलसुखमहानन्दसन्दर्भगर्भज्योतिबिभ्रत् प्रकृष्टं जननजनितभीभेदमेदस्विताभूत्(:) // 94 // जीयाः प्रद्योतिदन्तद्युतिततिषु लसज्जानुदध्नप्रसूनभ्राम्यद्धृङ्गाङ्गनानां भवति सति मुहुः पुष्यतादात्म्यबोधे / श्रीमद्धर्मोपदेशे श्वसितपरिमलोद्गारसारेण दाढ्य, सौरभ्यं पारिजातव्रततिततिगतामुष्णतां दातुमुत्कः // 95 // जीयाः संसारधन्वाध्वनि ज़निजनितानन्ततापासहानां, भव्यानां कल्पवल्लीपरिचितसखितामादिशन् देशनां स्वाम् / मोक्षाध्वन्यस्य साधोर्गहनतमतमोध्वंसनिर्बन्धभाजां, दत्वा सज्ज्ञानदीपं घनरुचिरुचिरं क्लृप्तविश्वोपकारः // 96 // जीयाः पादावनम्रत्रिदशपतिशिरोमौलिवैडूर्यरोचिः, कस्तूरीपत्रवल्लीनवनवरचनारोचितक्ष्माशरीरः / उत्सर्पद्भिः पदाब्जान्नखरुचिपटलैः पाटलैः कुङ्कुमाम्भोदम्भोदग्रैर्दशानामपि तनुमनिशं भूषयन् दिग्वधूनाम् // 97 // 15