________________ स्वनिग्रहानुग्रहतः स्वभक्तं, परे परं धातुमधीशतां ते।। मामेव मां कर्तुमलम्भविष्णुस्त्वमेव देवः कुशलानि कुर्याः // 84 // धृत्वा नयं निश्चयमभ्युपेयस्त्वं नाम नैवात्यहमाप्तमुख्यः / .. वर्ते तथापि व्यवहारवर्ती, त्वत्किङ्करत्वस्पृहयालुरेव // 85 // विद्याविदो देव ! तवैव सेवां, मुख्यं महानन्दपदं वदन्ति। इदं पदस्य क्वचिदन्यदर्थे, निरूढया लक्षणया प्रयोगः // 86 // अद्यावद्यापनोदादुदयति मम हन्नन्दने पारिजातो, नद्याः सद्य: सुधाया मम तनुरखिला निर्झरैरद्य स(श)स्ते। चिन्तारत्नं च मेऽभूत् कलितकरतलकोडसङ्क्रीडनश्रीः, श्रीर्मे त्वद्यै(य्ये)व भर्तर्भवति भवतिरोघानदक्षे प्रदृष्टे // 87 // याचे नाचेतनं यत् किमपि सुरमणि नापि कल्पद्रुपूगं, स्वर्धेनुं नापि नापि प्रसृमरकमलाक्रीडितं कामकुम्भम्। ... सेवाहेवाकिदेवाधिपतिशतनतस्तद्भवानेव भर्तर्दाता मे पर्यवस्यन् भवतु भवतुदे वाञ्छितार्थे श्रिये च // 8 // सङ्कल्पाः कस्य न स्युनिजहृदयदरीकोणजाङ्करकल्पाः, सेकच्छेकस्य तत्र प्रभवति नु परं भर्तुरिच्छा रसस्य / ते तत्त्वं याच्यमानः किमपि निजमनःसञ्चरिष्णुर्भविष्णुम॒जिष्णुर्भावभाजां मम विमलफलं योग्य एवासि दातुम् // 89 // मोहापोहाय चेत् स्याज्जिनमतसुमता काम्यकर्मप्रलिप्सा, भर्तर्भक्तिस्तु तत् स्यादभिविभु कृतया याच्या नानुबन्धः। .. तेनायं याचमानो किमपि जिन ! भवत्किककरो योग्य एव, . प्रायो योग्यत्वभाजस्तव पदकमले भृङ्गभूयं भजन्ते / // 9 // भर्ता संसारगर्तापतदखिलजनत्राणदक्षस्त्रिलोक्यं, भर्ता हर्ता जनानां दुरितसुविततेर्जन्मलक्षोर्जितायाः / 194