________________ भवद्यश:स्पर्धनजं रजः किं, मिलत्सुधाधाम्नि कलङ्कपङ्कः / जडे भवत्येव नु पङ्किलत्वं, व्याप्तौ निदानं सहचारबुद्धिः // 72 / / देवाधिदेवस्य तव स्वरूपं, स्तोतुं न देवा अपि शक्नुवन्ति। तथापि कल्याणकरी ममास्तु, भक्त्या भवद्वर्णनवर्णिकेयम् // 73 // पीयूषपात्रं वितनोति तारा-रेखाभिराभिः शशिनं तु रिक्तम् / भवद्गुणानां गणनां विधित्सुविधिः पुनः किं दिवि पूर्यमाणम्।। 74 // भवेद् भवप्रक्षयशुद्धिभाजां, वाग्वर्णनानां तुलना धियां चेत् / गाने गुणानां तु तदा कदाचित्, पदं निदध्युस्तव योगिनोऽमी।। 75 // परा_पाथोनिधिपारदृश्वा, विधेर्यदि स्याद् गणितप्रकारः / भवद्गुणानां गणना तथापि, कथापि वा वारिधिलङ्घनस्य // 76 // भवद्गुणानां विधिरभ्रपट्टे, भवत्प्रतापैः परितर्जितस्य / द्रवैः सुमेरोस्त्रपया द्रुतस्य, सौवर्णवर्णैलिखतु प्रशस्तिम् // 77 // भवद्गुणानां गणनाय नायं, ताराङ्करेखाः प्रवरं प्रकारः / स्मरत्विदानी द्रुहिणस्त्रिलोक्यं, दोधूयमानां परमाणुराजिम् // 78 // न्यस्तो कदाचिद्घनमूलकूले, करेशयानां च कदाचिदिन्दुम् / भवद्गुणानां गणकस्य धातुः, खटीं विना नाम घटी न यातु // 79 / / धातुस्तव श्लोकपरीक्षणेच्छोश्छन्दोऽपि मन्दोदरतां प्रयाति / येनैकवर्णेन जगज्जगाहे, सीमैच काऽनुष्टुभि तस्य नाम // 80 // दिक्चक्रचक्रभ्रमणैर्गुणैस्ते, यश:पटं यत् कवयो वयन्ति। अस्मिन् विधातुः किल तार्किकस्य, पपात तर्कः पथि कर्कशेऽस्य 81 विद्याकलाकौशलशिल्पिनोऽपि, गुणेऽपि वृद्धिस्तव सुप्रतीता। तदत्र वैयाकरणो विधाता, विलक्षणं लक्षणमभ्युपैतु // 82 // तारापदैस्ते सुगुणप्रशस्तेर्यस्याः सिसृक्षा नभस: सितस्य। . सेयं विधातुः कतमा समीक्षा, भिक्षाचरी भूतवती मनीषा // 83 // 193