________________ अन्ये कथं जाग्रति पारिजाते, ह्यपारिजाते न तव व्यथायै / निषेव्यतामेष जगन्निषेव्यो, मम प्रभुइँनमपारिजातः // 48 // भवद्यशोभिर्भुवि भासितायां, सितेतरनाम सिते ममज्जे। लुम्पत्परेषामभिधां स्वनाम्ना, सितं न तत्र स्वधिया ममज्जे // 49 // हसन्निमीलधुगपत्पयोजं भवन्महो भानुयश:शशिभ्याम् / शङ्कां वितेने दिनरात्रशिल्प-क्रमे विधेर्नूनमकौशलस्य // 50 // विश्वेऽपि यो मात्यपि नैव वर्णः, सकर्णकर्णादरकोणवासी। बोद्धं क्षमास्तीवधियोऽपि धीराः, श्लोकं त(त्वदीयं कथमेतमेते।।५१॥ स्वैरं दिवः स्नातवतस्तटिन्यां, समुच्छलत्तारकतोयबिन्दु / सितत्विषस्त्वद्यशसः पवित्रं, विधुस्तनुं प्रोञ्छनकं विभाति // 52 // अयं हि चन्द्रो ननु सैहिकेयो, यस्यास्ति रङ्कुः किल कुक्षिगामी / उपैत्यमुं म्लानतमं न को वा, विशेषदर्शी यशसस्तवाग्रे // 53 // वियद्विघीतो प्रतिघस्रधृष्ट-चन्द्रेण भानुद्युतिसिञ्चनैश्च / भवद्यशोराशिनिवासयोग्यं, मत्वैव नित्यं कुरुते पवित्रम् // 54 // भवद्यशोभिः सकलेऽपि सारे, मुष्टे विधुर्नाम बभूव भिक्षुः / कपालिनं सम्प्रति सेवमानः, प्राप्नोति लक्ष्मैष कपालमेव // 55 // भवद्यशःपुष्टिकृते विधिर्यत् सुधाब्धिमिन्दुं निबिडं निपीड्य / गृह्णाति सारं तदमुत्र ह्युक्त-मङ्कः समुद्गच्छति पङ्क एव // 56 // आदाय सारं सकलं यदिन्दोरशोभि विश्वं भवतो यशोभिः / लक्ष्मच्छलात्तत् स्फुटमीक्षतेऽसौ, सुधाम्बुधिः शैवलमात्रशेषः // 57 भवद्यश:पूजनतत्पराया, दिव: प्रसूनाञ्जलिरेव चन्द्रः / तयैव साक्षादुपढोक्यमाना, लाजा इवामी विलसन्ति ताराः // 58 // जिगीषुणा त्वद्यशसा जगन्ति, पत्रं ज(ल)लम्बे विधुरन्तरिक्षे / तदस्य धात्रोपरि वर्षितानि, ताराः प्रसूनानि जयस्य चिह्नम् // 59 // . . . 181