________________ एकान्तमुद्रामधिशय्य शय्यां, नयव्यवस्था किल या प्रमीला। तया निमीलनयनस्य पुंसः, स्यात्कार एवाञ्जनिकी शलाका // 36 // एकान्तभेदः किल धर्मधर्मिव्यवस्थया विष्णुवदे (वस्तुषु नै) व लभ्यः गोरवतेव प्रविभिद्यते चेत्, गोत्वं लभेत्कस्तदिदं विशेषः // 37 // प्रत्येति जल्पन् समवायमेकं, गवीव गोत्वं न कथं तुरङ्गे। आधारतैक्येऽपि समानयुक्ते-स्तयां प्रतीकारकृतिर्न युक्ता // 38 // अभेदभेदात्किल धर्मधर्मिविशिष्टबुद्धिस्तव शासने नु(तु) / तदात्मतावृत्त्यनियामकत्वमेकान्तताभाजि ततो न दोषः / // 39 // एकत्र वृत्तौ हि विरोधभाजोर्या स्यादवच्छेदकभेदयाच्या। .. द्रव्यत्वपर्यायतयोविभेदं, विजानतां सा कथमस्तु नस्तु // 40 // भेदः पृथग् भूतिरथान्यभावो, द्विधेति तत्र प्रथमं वदन्ति। विभक्तदेशेषु तथान्त्यमन्ये, स्वधर्मर्मित्वविभागहेतुम् // 41 // अभेदभेदोल्लसदेकवृत्तौ, तेषामवच्छेदकमप्यमृग्यम् / स्वाभावयोरेव यदेकवृत्तौ, जागर्त्यवच्छेदकभेदयाच्या // 42 // सदेव चेत् स्यादसदेव चेत् स्या-देकीभवेद्वा न जगद्भवेद्वा / इमां क्षतिं सोढुमशक्नुवन्त-स्त्वच्छासनं देव ! परे श्रयन्तु // 43 // परेण रूपेण भजत्यजत्रं, स्वरूपतोऽस्तित्वमनस्तिभावम्। अनस्तिभावः पुनरस्तिभावं, परोपनीतः स्वचतुष्टयेन // 44 // विना भवन्तं स्थितिहेतुमन्यं विश्वस्य या धावति देवमाप्तम् / जागति वन्ध्यातनयस्य मौलिमलङ्करिष्णुः कतमा कलेयम् // 45 // जनुभृतां दुर्नयनाशितानां सञ्जीवनी नाम तवैव वाणी। . . उपेत्य मच्चेतसि सा समस्त-रुजां विनाशे पटिमानमेतु // 46 // त्वयि प्रभो ! जाग्रति दानशौण्डे गोपायति स्वं नंनु पारिजातः। न केवलं तैः पटलैरलीनां, स्वदारुभावादपि दुर्यशोभिः // 47 // 190