________________ परस्य रोगान् हरतस्त्व(ति त्व)दीये, रोगाः शरीरे न विशन्ति युक्तम् / विषव्यथानाशकरं जनानां, किं कालकूटन्यमृतं स्पृशन्ति // 24 // न शोणिमानं रुधिरामिषौ ते, न स्वेदखेदौ दधतश्च मेदः / इदं क्दिन्तोऽपि कुपन्थिनो थे, त्वदक्षमास्तेषु जगाम खेदः?॥ 25 // कल्पद्रुसौरभ्यसुखं मिलिन्दा, भजन्त्यमी श्वाससमीरणं ते / अवाप्य किं नो गुणिनं गुणज्ञाः, प्रमोदमेदस्वलतां व्रजन्ति // 26 // यशो यतो जन्म लभन्नितान्त-मद्यापि विश्वं विशदीकरोति / तस्मिन् शरीरे रुधिरामिषौ ते, गोक्षीरधाराधवले कथं नो? // 27 // तन्मानसे कस्य न चर्करीति, चिरं चमत्कारभरं बुधस्य / आहारनीहारविधिविरेजे, दृश्या(शा)प्यदृश्या(श्यो) भवतो यदुच्चैः 28 गुणैरमीभिः किल जन्मतोऽपि, विश्वं विनेतर्ननु योऽतिशेषे / नृधर्ममात्रेण कथं कृशाशाः, कुवादिनस्त्वां तमपहुवन्ति // 29 / / पुंसोऽतिशेषे पुरुषोत्तमत्वा-द्देवाधिदेवः सकलाँश्च देवान् / अन्यत्र कुत्राप्युपमानमुद्रा, कुवादिविज्ञानसमानशीला // 30 // त्वं शङ्करो भासि महाव्रतित्वा-द्बह्माऽसि लोकस्य पितामहत्वात् / विष्णुविनेतः पुरुषोत्तमत्वा-ज्जिनोऽसि रागादिजयाज्जनार्यः॥ 31 // विधृत्य वाचं भवतः कथाया-मक्षान्तपक्षान्तरसन्निवेशः। उदास्यमाने कुपरीक्षकौघो, त्वत्किङ्करः किं करवै विनेतः // 32 // कलौ कुकाले किल सत्परीक्षा भिक्षाचराणां सुलभा न भिक्षा / कथाप्रथायामिति कीर्तिलाभे, त्वत्किङ्करस्यास्य गतिस्त्वमेव॥ 33 // भक्त्प्रसादाद्भवविद्धबुद्धिर्लघुर्महानेव तवास्तु दासः / ग्रावाऽप्यधिष्ठापकसन्निधानाच्चिन्तामणिः किं न जगन्निषेव्यः।। 34 // अयं जनो यद्यपि कुन्थुरेव (श्रुताढ्यनाग) प्रभृतीनवेक्ष्य। . भजे तथापि प्रसभं कथायां, भवत्प्रसादात् परवारणत्वम् // 35 // 189