________________ इत्थं च कार्ये न सकर्तृकत्वम्, शक्यं बुधैः कार्यतयाऽनुमातुम् / तर्कं विना यत् किल जागरूकः, शरीरजन्यत्वमुपाधिरत्र // 12 // भवेद्भवे दुर्नयतो हि नित्य-प्रमेव नित्यभ्रम एव भूयान् / मानं यतस्तस्य धियो न किञ्चित्, प्रत्यक्षतायां किल पक्षपाती।॥ 13 // कार्यानुरोधेन कुदर्शनानां, कर्तेव नित्यस्तनुरस्तु नित्या। जगच्छरीरैर्यदसौ शरीरी, तदीश्वरास्तर्हि वयं भवामः . // 14 // उत्पत्तिनाशौ न यथा नितान्तं, नेयं सिसृक्षा न च सञ्जिहीर्षा / मृषा गुणारोपकृता किलैषा, विडम्बना केवलमीश्वरस्य . // 15 // देवं परे श्रद्दधते यदीमे, कषायकालुष्यकलङ्कशून्यम् / तदा मदाघूर्णितलोचनेयं, गौरी वरीतुं वरमीहतां कम् // 16 // देवं परे श्रद्दधते यदीमे, कालीकटाक्षस्पृहणीयशोभम् / कुतस्तदा श्रद्दधते न भानु, समुद्धतध्वान्तविलुप्तदीप्तिम् // 17 // तीर्थेश ! वाणी तव सप्तमार्गा, गङ्गां त्रिमार्गामतिशेत एव / / विहाय तीर्थं परमं तदेना-मन्यां भजन्तो न कथं त्रपन्ते // 18 // प्रभो ! परेषां त्वयि मोहभाजां, यो नाम योग्यानुपलम्भदम्भः। . अर्थे समस्तेऽपि बिभर्तु मौनं स देशकालव्यवधानभाजि // 19 // अपहनुवन्ते नितमां भवन्तं, जागर्ति येषां दृगयोग्यतोच्चैः। स्वनेत्रपन्थानमनाप्नुवन्त-स्तेषामयोग्याः स्वपितामहाद्याः // 20 // नखेषु चन्द्रेषु वितेनिरे यै-स्तारासमालिङ्गनकौतुकानि। त्वत्पादयोर्देव ! नमोऽस्तु तेभ्यः, सुरेन्द्रचिन्तामणिचुम्बितेभ्यः।। 21 // नीलां जिनाधीश ! तवैव देह-च्छायां नु कामं मनुते मनस्वी। सम्भाव्यते नाम न रूपमीहक्, त्रिनेत्रनेत्रानलभस्मनस्तु // 22 // कल्पद्रुकोटीगुणलुण्टनस्य, द्वारेव सङ्क्रान्तमिति त्वदीये। सौरभ्यमङ्गेऽप्सरसां भ्रमद्भि-दृग्भिमिलिन्दैः परिचीयते च // 23 // 188