________________ ॥श्रीशङ्केश्वरपार्श्वनाथस्तोत्रम् // 3 // ऎकाररूपस्मरणोपनीता, कृतार्थभावं धियमानयामि / समूलमुन्मूलंयितुं रुजः स्वाः, संस्तूय शङ्केश्वरपार्श्वनाथम् // 1 // भवद्गुणानां गणनां विधातुं, पुरन्दरोऽपि प्रभुरेव न स्यात् / तथापि निःशङ्कतया प्रवृत्तेः(त्तिः), यत्तत्र हेतुनिजकार्य(थ)लोभः।। 2 यः कार्यमासाद्य महान्तमीशं, न याचते नाम निजानुरूपम् / रत्नानि वर्षत्यपि वारिवाहे, स पाणिदाने क्षपणत्वमेति // 3 // त्वयि प्रभौ पूरयति प्रकामं, मुहर्मन:प्रार्थितमर्थमेषः / चिरं करालम्बनदत्तखेदां, कल्पद्रुकोटीमपि किं करोतु ? // 4 // वाञ्छातिगार्थप्रदमीशमेन-मासाद्य लोकः पुरुषोत्तमं त्वाम् / चिन्तामणौ यच्छति कञ्चिदर्थं, को रज्यते ग्राव्णि विशेषदर्शी // 5 // तृणानि भुक्त्वा किल कामधेनु-र्गवान्तरस्यैव दशां बिभर्तु / अस्याः पुरो न्यस्यति कः करौं स्वौ, त्वदेकनाथे भुवने मनस्वी।। 6 // कथं निषेव्यो दृषदाहतोऽपि, व्ययं व्रजन् देव ! मकरकरीरः / त्वां पारिजातं सुकृतैरपूर्वं, सदातनं प्राप्य सचेतनञ्च // 7 // अन्विष्यमाणं तु हितानुरूपं, देवेषु रूपं त्वयि पर्यवस्यत् / कुतूहलं भानुमतः सभायां, ग्रहस्य किञ्चित् कलयाम्बभूव // 8 // किं कालकूटाशिनि शूलपाणौ, सृजन्ति देवत्वधिया न मूढाः / वयं तु सद्बोधसुधां लिहन्तं, त्वामेव देवं विनिभालयामः // 9 // इच्छांवशं चेद् भुवनं भवस्य, तिष्ठेत् सदा वा निपतेत् सदा वा / नेच्छावशं चंद् भुवनं भवस्य, कर्मप्रकृत्यैव तदा सदाशम् // 10 // सर्वत्र कार्ये न कृतिनिमित्तं, विलक्षणत्वेन यदत्र तत्त्वम् / जिनेश ! किञ्चिनिजवासनायां, न्यायं नयन्तः कुदृशः पतन्ति॥ 11 // . 187