________________ एकत्र वस्तुन्यऽभिदीर्णशोषं, कुपक्षिणां यः किल पक्षपातः। स एव तीर्थेश ! परानुयोगे, मतिच्छिदायाः परमं निदानम् // 23 // . भिन्दन्ति तत्त्वानि भिदाप्रतीति, निदानमासाद्य कुवादिनो ये। संख्यामनासाद्य विहाय भूमी, विहायसि स्थातुममी धृताशाः // 24 // येऽपि प्रकामं प्रतिजानतेऽज्ञा, जगज्जिनैकान्तत एकमेव / जारं च सत्यं पितरं च तेऽपि, समानबुद्ध्यैव समाश्रयन्तु // 25 // अभिन्नभिन्नं तु नयैरशेषै-रदीदृशः साधु तथा पदार्थम् / दोषाख्यया नाथ ! यथाश्रियन्ते, त्वद्वेषिणो वाततयोद्द्विषां वा (षन्तः) पदार्थगान् पर्यनुयोगयोग्यान्, सप्तापि भङ्गान् विभनक्ति भाषा। तथा तवाधीश यथा कथायां, शङ्कासमाधीरपरे लभन्ते . // 27 // जिह्वासहस्रं जिनराज ! युष्म-द्गुणान्न संख्यातुमलं यदासीत् / सहस्रजिह्वोऽपि ततः स्वनाम्ना, द्विजिह्व इत्येव जनैः प्रतीतः // 28 // जङ्घालभावं कलयनशेष नभो जिनाकामति यः क्रमाभ्याम् / .. अशासनैस्तस्य पदं निदध्याद्, वक्तुं विशेषं तव सर्ववाचाम्॥ 29 // प्रणम्रदेवेन्द्रशिरःकिरीट-रत्नधुतिद्योतितदिविभागः। अस्मन्ननोवाञ्छितपूरणायां, कल्पद्रुकल्पः कुशलाय भूयाः // 30 // हितार्थिना सम्प्रति सम्प्रतीतः, संस्तूयसे यच्छिवशर्मदाने। तेनैव तीर्थेश ! भवे भवेऽस्तु, भवत्पदाम्भोरुहभृङ्गभूयम् // 31 // इत्थं श्रीशङ्केश्वर-पार्श्वनाथः प्रणतलोकहितदाता। स्तुतिपन्थानं नीतः, यशोविजयसम्पदं तनुताम् // 32 // अध्ययनाध्यापनयुग्-ग्रन्थकृतिप्रभृतिसर्वकार्येषु। . श्रीशङ्केश्वरमण्डन !, भूया हस्तावलम्बी मे . 189