________________ स्फुटे विनिर्णेतरि देवदेव!, सन्देग्धि यस्त्वय्यपि जागरूके। निमील्य चक्षुः स घटाद्यपश्यन्, प्रदीपवृन्दैरपि किं करोतु // 11 // सोऽयं मया ध्यानपथोपनीतः, केनाऽपि रूपेण चिरन्तनेन / भवभ्रमघ्नो मम देवदेव!, प्रणम्रदेवेन्द्र ! चिराय जीयाः // 12 // अलोकलोकव्यतिवृत्तिदक्षा, शक्तिस्त्वदीया समये स्मृता या। अस्मादृशां सा सहतामपायं, भेत्तुं क्षणार्द्धऽपि कथं विलम्बम्॥ 13 // प्रश्ने परेषां यदधीष्टदेश्यं, त्वमेव देवो मम वक्तुमर्हः / ततोऽस्य भक्तस्य समीहितार्थं, पद्मावतीभोगिपती क्रियेताम् // 14 // अदाः सदा नम्रसुरासुरेश !, प्रसूनमालां किल यां मनस्वी त्वत्किङ्करस्यास्य तयैव विश्वे, प्रकाश्यतां देव ! चिरं जयश्रीः।। 15 // कथाश्लथासत्यपथ: परीक्षा, परीक्षकाणां हृदये निलीना / कलौ कुपक्षग्रहिलप्रतापे, त्वत्किङ्कराणां शरणं त्वमेव // 16 // औदास्यभागेव तुलां दधाने, खद्योतपोते द्युतिमालिनो या ' कलौ गलबुद्धिपरीक्षकाणां, तां चातुरी देव ! वयं न विद्मः / / 17 // कवेः सभायां कुपरीक्षकाणा-मधिक्रियापि स्फुटधिक्क्रियैव / बकस्य पतौ वसतो न किं स्यात्, मरालबालस्य महोपहासः॥ 18 // कण्ठीरवा एव कुपन्थिनागे, भवत्प्रसादाद्वयमुद्धताः स्मः। . स्याद्वादमुद्रारहिताः कुतीर्थ्याः, श्रृगालबाला इव नाद्रियन्ते // 19 // याचामहे देव ! तवैव भूयः, कृपाकटाक्षेण कृतार्थभावम् / जरानिहन्ता किल यादवानां, दासं दृशैनं प्रविलोकयस्व // 20 // प्रत्यक्षलक्ष्यामिव कल्पवल्ली, तवापि मूर्ति किल यो न मेने। स्वबोधिबीजस्य जिनेश ! तेन, न्यधायि कण्ठे कठिनः कुठारः॥ 21 // नयानविज्ञाय जिनेश ! किञ्चित्; अभ्यस्य येषां तव वाग्बुभुत्सा। द्रुतं रुताभ्यासकृतां तु तेषां, पिकस्वरेच्छा किल वायसानाम्॥ 22 // 185