________________ वासवोऽपि गुरुरप्यपरोऽपि,त्वद्गुणान् गणयितुं कथमीष्टे। .. अस्यते करुणयैव दिगेषा, भ्राजता तदपि भूरिविशेषा // 21 // ॥श्रीशङ्केश्वरपार्श्वनाथस्तोत्रम् // 2 // ऐंकाररूपां प्रणिपत्य वाचं, वाचंयमव्रातकृतांहिसेवम् / / जनुःपुपूर्षुर्दुरितं जिहासुः, शङ्केश्वरं पार्श्वजिनं स्तवीमि // 1 // अप्येकमीशं जगतां भवन्तं, विहाय ये नाम परं भजन्ते / कुपक्षिणस्ते ननु पारिजात-स्रजं भजन्ते न करीरसक्ताः // 2 // आहार्यदेवान् भजतां. सरागाँ-स्त्वद्वेषिणां चेतसि या मुमुक्षा। अज्ञानभाजां किल सा जनानां, तृप्त्यर्थिनां शैलशिलाबुभुक्षा // 3 // परेषु देवत्वमुपेत्य देव !, मूढा विमूढेषु हितार्थिनो ये। ... आरोपितादित्यगुणेन तेषां, खद्योतफेतेन कृतार्थताऽस्तु // 4 // त्वदर्शनाय स्वहितार्थिनोऽपि, द्रुह्यन्ति ये नाम जिनेश ! मूढाः / मोहेन पीयूषमपि त्यजद्भिः, पिपासुभिस्ते सह तोलनीयाः // 5 // त्वत्सेविनां दैशिकशासनेभ्यो, ये नाम वाचं न विशेषयन्ति। जागर्तु तेषां भृशमन्धकार-प्रकाशयोरप्यविशेषबुद्धिः // 6 // दुर्लीतयः शान्तरसं स्रवन्ती, ये सप्तभङ्गी तव नाद्रियन्ते। पिपासवस्ते पतिताः कृशानौ, हता हता एव हहा हताशाः // 7 // विधि निषेधं च दिशन् जनेभ्यो, जगज्जगन्नाथ ! पितेव पासि। चित्रं तथापि स्वपितामहादीन्, त्वां निहनुवन्तोऽपि न निहनुवन्ति।। 8 // वसुन्धरां नीरभरेण सिञ्चन्, यथोषरानूषरयोः पयोमुक् / .. असत्सतोरन्यतरत्र नैव, तथोपदेशस्तव पक्षपाती // 9 // महीसिचः पङ्ककृतः पयोदा-द्धर्मं दिशन्देव! विलक्षणोऽसि / यथा यथा सिञ्चसि भव्यचेत-स्तथा तथा पङ्कमपाकरोषि // 10 // 184