________________ बहुधात्र सुधारुचिरैर्वचनैर्भवता भवतापभरः शमितः / अमितप्रसरद्गुणरत्ननिधे ! शरणं चरणौ तव तेन भजे // 107 / / इति प्रथितविक्रमः क्रमनमन्मरुन्मण्डलीकिरीटमणिदर्पणप्रतिफलन्मुखेन्दुः शुभः। जगज्जनसमीहितप्रणयनैककल्पद्रुमो यशोविजयसम्पदं प्रवितनोतु वामाङ्गजः . . // 108 // ॥वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् // 1 // ऐन्द्रमौलिमणिदीधितिमाला-पाटले जिनपदे प्रणिपत्य। ... संस्तवीमि दुरितद्रुमपार्श्व, भक्तिभासुरमना जिनपार्श्वम् // 1 // अस्य सम्प्रति जनस्य रसज्ञा, त्वद्गुणौघगणनास्पृहयालुः / उद्यतं तुलयति स्थितमुर्त्यां, स्वर्गशाखिकुसुमावचयाय // 2 // विश्वविश्वविभुतां निभृतं(ता) यः शङ्कते परसुरेषु तवेव। तस्य हन्त ! खलता खलतायां, पद्मसौरभमिवानुमिनोति // 3 // यः परं परमदेव ! विमूढ-स्त्वत्समानमनुमित्सति तर्कः / भास्करत्वमनुमीय पतङ्गं, सूरमेव न करोति कुतोऽसौ // 4 // देवदेव ! वचनं यदवोचः, सप्तभङ्गमपि निर्गतभङ्गम् / तन्यते ननु मनः श्रमणाना-मस्तमोहमपि तेन समोहम् // 5 // न्यकृतः शुभवता भवता य-च्चित्तभूस्त्रिजगतामपकारी। तज्जिनोत्तम ! तमोदलन ! त्व-च्छाययैव तनुमेष बिभर्ति // 6 // अप्सरोभिरपि नार्द्रितकं य-द्यच्च न स्मरशिलीमुखभेद्यम्। वज्रतुल्यमपि तत्कथमन्त-भक्तिभृत्सु तव मार्दवमेति // 7 // स्वं विशुद्धमुपयुज्य यदाप्य, श्राम्यसीह न परं परिणम्य / सर्वगोपि नहि गच्छसि सर्वं, तद्विभासि भुवने त्वमिव त्वम् // 8 // 182