________________ सहे नान्यं धर्मं नृपसदसि जल्पव्रजमहे महेश ! त्वं तस्मान्मयि कुरु दयां शश्वदुदयाम् // 97 // भयं सर्वं याति क्षयमुदयति श्रीः प्रतिदिनं विलीयन्ते रोगा लसति शुभयोगादपि सुखम् / महाविद्यामूलं सततमनुकूलं त्रिभुवनाभिराम ! त्वन्नाम स्मरणपदवीमृच्छति यदि // 98 // नमदमर्त्यकिरीटमणिप्रभापटलपाटलपादनखत्विषे / गलितदोषवचोधुतपाप्मने शुभवते भवते भगवन् ! नमः // 99 / / सुरतरुः फलितो मम साम्प्रतं विगलितोऽपि च दुष्कृतसञ्चयः / सुरमणी रमणीयभवन्नुतेः करतले रतलेपहरालुठत् // 100 // दिशति कार्मणमीश ! शिवश्रियः प्रियसमागमहेतुरनुत्तरः।। विजयते विहितोत्कटसङ्कटव्युपरमा परमा तव संस्तुतिः // 101 // तव मतं यदि लब्धमिदं मया किमपरं भगवन्नवशिष्यते ? / सुरमणौ करशालिनि किं धनं स्थितमुदीतमुदीश ! पराङ्मुखम् // 102 // सर्पत्कन्दर्पसर्पस्मयमथनमहामन्त्रकल्पेऽवकल्पे .. प्रत्यक्षे कल्पवृक्षे परमशुभनिधौ सत्तमोहे तमोहे। निर्वाणानन्दकन्दे त्वयि भुवंनरवौ पावना भावना भाध्वस्तध्वान्ते समग्रा भवतु भक्तुदे सङ्गता में गतामे // 103 // प्रसीद सद्यो भगवन् ! अवयं हरस्व पुण्यानि पुषाण भर्तः ! / स्मर्तव्यतामेति न कश्चिदन्यस्त्वमेव मे देव ! निषेवणीयः // 104 / / हरिदन्तिसरीसृपानलप्रधनाम्भोनिधिबन्धरोगजाः। न भियः प्रसरन्ति देहिनां तव नामस्मरणं प्रकुर्वताम् // 105 / / चिदानन्दनिस्यन्दवन्दारुशक्रस्फुरन्मौलिमन्दारमालारजोभिः / पिशङ्गौ भृशं गौरकीर्तेस्तवाङ्ग्री गलल्लोभशोभाभिराम ! स्मरामः // 106 / / 181