________________ // 65 // . . // 66 // 67 // कुहूर्नाम्नैवातः पिकवदनमातत्यशरणं श्रिता साक्षादेषा परवदनवेषा विलसति यशोदुग्धाम्भोधौ भवति तव मीनाकृति नभो ध्रुवं स्फारास्तारा जलकणतुलामीश ! दधते / किमावर्तः श्वभ्रं गिरीशगिरिगौरीशशशभृत्त्रिपिण्डी डिण्डीरद्युतिमुपगता नास्ति किमिह प्रयोगेऽस्मिन् विश्वे प्रसरति भवत्कीर्तिरनिशं रसैस्तुङ्गा गङ्गा गिरीशगिरिशीतांशुविशदा। परेषां निःशेषा जिनवर ! कुकीर्तिश्च यमुना . घनाम्भोदश्यामा ननु महसहस्रापतदिह (इतः परं त्रुटितमस्ति त्रिनवतिश्लोक पर्यन्तम्) कथा का ते ख्यातेः कृतविपुलसातेश्वर ! भवत्प्रभावादन्येषामपि भवति नो कूटघटना / न कः प्राणी वाणीरसहृतजगन्मानसतृषं श्रयेत त्वां नाथं दलितघनमायामृषमतः भवान् चक्री कर्मव्रजविकटवैताढ्यघटितं कपाटं ग्रन्थ्याख्यं सुपरिणतिदण्डाद् विघटयन् / प्रतीर्योद्यद्वीर्यो जयति सकलासद्ग्रहजलं प्रपूर्णेच्छम्लेच्छवजसदृशमिथ्यात्वविजयात् मता देवाः सुभ्रूस्तनजघनसेवासु रसिका महादम्भारम्भाः प्रकृतिपिशुनास्तेऽपि गुरवः / दयाहीनो धर्मः श्रुतिविदितपीनोदय इति प्रवृद्धं मिथ्यात्वं सुसमयघरट्रैर्दलितवान् परं देव ! त्वत्तो न खलु गणयामि क्षणमपि / त्वदादिष्टादिष्टाद् गुरुमपि पथः प्रच्युतमिह / 180 // 94 // // 95 // // 96 // " र