________________ // 54 // // 56 // विना मोहं मुग्धः श्रितबुधविनाङ्गीकृतशिवो विरूपाक्षाकारं विगलितविकारं विजयसे गुणास्ते स्पर्धन्ते प्रसृमरशरच्चन्द्रनिकरान् कथं व्यक्तं रक्तं भवति हृदयं तैर्भवभृताम् / कठोरं चेतस्ते यदपि कुलिशाद् घोरनियमे कथं विश्वे विश्वेश्वरवर ! कृपाकोमलमदः मुनीनां ध्यानाब्धौ तव मुखविधोर्दर्शनरसात् तरङ्गैरिङ्गद्भिः प्रशमरससंज्ञैः प्रसृमरैः / भृशं फेनायन्ते हतमदनसेना गुणगणाः तवोच्चैः कैलाशद्युतिमदभिदायां सुनिपुणाः गुणास्ते ते हंसास्त्रिजगदवतंसायित ! चिरं भजन्ते ये ध्यानामृतरसभृतं मानसमदः / भिदां तन्वन्त्येते बत परयशोमौक्तिकगणैः कृताहाराः स्फारा न किमु पयसोर्दोषगुणयोः (अतः परं विशीर्णानि पद्यानि पञ्च) . विधि: कारं कारं गणयति नु रेखास्तव गुणान् सुधाबिन्दोरिन्दोवियति विततास्तारकमिषाः / प्रतिश्यामायामान् व्रजति न विलासोऽस्य निधनं ततो रिक्ते चन्द्रे पुनरपि निधत्तेऽमृतभरम् . महो राहो होमलिनमलिपङ्क्तिश्च धवला. बलाकामाकारा द्विकवृकपिकानामनुसृताः / न शैला: कैलाशा इव किमभवनञ्जनमुखा भृशं विश्वं विश्वं शिसयति भवत्कीर्तिनिकरे यशोभिस्तेऽशोभि त्रिजगदतिशुभै शमितस्तिथिः सा का राका तिथिरिह न या हन्त ! भवति / / / 57 // // 63 // // 64 // 170