________________ // 488 // // 49 // // 50 // जरीजृम्भड्डिम्भत्रिदशमणिकान्तिस्मयहरी . वरीवर्ति स्फूर्तिर्गतभव ! भवन्मूर्तिनिलया इमां मूर्तिस्फूर्ति तव जिन ! समुद्वीक्ष्य सुदृशां सुधाभिः स्वच्छन्दं स्नपितमिव वृन्दं ननु दृशाम् / कुदृष्टीनां दृष्टिर्भवति विषदिग्धेव किमतो विना घूकं प्रीतिर्जगति निखिले किं न तरणे: ? इमां मूर्तिस्फूर्ति तव जिन ! गतापायपटलं नृणां द्रष्टुं स्पष्टं सततमनिमेषत्वमुचितम् / न देवत्वे ज्यायो विषयकलुषं केवलमदो' निमेषं नि:शेषं विफलयतु वा ध्यानशुभहक् भवद्ध्यानस्नानप्रकृतिसुभगं मे सुहृदयं पवित्रा चित्रा मे तव गरिमनुत्या भवतु गीः / प्रणामैः सच्छायस्तव भवतु कायश्च सततं त्वदेकस्वामित्वं समुदितविवेकं विजयताम् .. अहीनत्वख्याति वहसि महसा पीनसुषमा क्षमां बिभ्रद् भूयः फणमणिघृणिध्वस्ततिमिरः / तथाप्येतच्चित्रं क्षणमपि न कृ (तृ) ष्णाश्रयणकृत् न वाधो निर्बाधो वसतिमितसिद्धिर्वितनुषे गलत्पोषा दोषास्त्वयि गुणगणाः क्लृप्तशरणा गतक्षोभा शोभा हृदयमपि लोभादुपरतम् / त्विषां पात्रं गात्रं वदनमतिलावण्यसदनं तवाक्षुद्रा मुद्रामृतरसकिरः पर्षदि गिरः विना बाणैविश्वं जितमिह गुणैरेव भवता / विना रागं चित्तं शुवनभविनां रञ्जितमपि। // 51 // // 52 // 108