________________ // 37 // पः / // 38 // इमां ते योगद्धिं न खलु कुशलाः स्पर्द्धितुमहो! परे धाम कामद् गगनमिव सूर्यस्य शलभाः मुखेन्दुज्योत्स्नेव स्फुटतनुलसत्कान्तियमुनाप्रशंसा हंसाली किमु किमुत पुण्यर्द्धिरखिला? / स्मितश्री: किं लक्ष्म्याः किमुत परमध्यानघटना . प्रभो ! त्वन्मौलिस्था विलसति सिता 'चामरततिः' न किं देवाः सेवां विदधति 'मृगेन्द्रासन' जुषस्तव प्रौढाम्भोदप्रतिमवपुषः पुण्यजनुषः / प्रदेशे स्वर्णाद्रेः क्वचन रुचिरे नन्दनवने / प्रियङ्गोः सङ्गोत्काः किमु न सततं षट्पदगणाः अभूनेन्दुर्भूयःप्रभविभुमुखीभूय न सुखी तमोग्रासोल्लासस्तदिह ननु मय्येव पतितः / इदं मत्वा सत्त्वात् किमु तव रविौलिमधुना श्रितो नेतश्चेतःसुखजनन 'भामण्डल' मिषात् स्फुरत्कैवल्यश्रीपरिणयनदिव्योत्सवमिव त्रिलोकीलुण्टाकस्मरजयरमाताण्डवमिव / सदा धामस्थामप्रसरमिव शंसन्नतितरां . तवाकाशेऽकस्मात् स्फुरति पुरतो 'दुन्दुभिरवः' परं चिह्न विश्वत्रितयजयदिव्यव्यवसितेः कृतव्यापत्तापत्रयविलयसौभाग्यनिलयः / धृतं हस्तैः शस्तैस्त्रिदशपतिभिः प्रेमतरलैभवन्मौलौ 'छत्रत्रय' मतितरां भाति भगवन् ! विलासो नारीणामिह खलु पराभूतिरुदिता .. प्रसिद्धा चान्येषां तव च परमोहव्यवसितिः। . // 39 // // 40 // // 41 // 106