________________ // 30 // // 31 // // 32 // न भीति नानीति त्वदतिशयतः केवलमिमे सकर्णाः कर्णाभ्यां गिरमिह पिबन्ति प्रतिकलम् गिरः पायं पायं तव गलदपायं किमभवन् सुधापाने जाने नियतमलसा एव विबुधाः / तदक्षुद्रा मुद्रा सितमहसि पीयूषनिलये निजायत्ता दत्ता जठरविलुठल्लक्ष्ममिषतः तनीयानप्युच्चैर्न पटुरशनीया परिभवः पिपासापि कापि स्फुरति न भवद्गी: श्रवणतः / भवेत् साक्षाद् द्राक्षारसरसिकता हन्त ! बहुधा सुधास्वादः सद्यः किमु समुदयेन्नाधिवसुधम् ब्रुवाणैर्गीर्वाणैर्जिन ! सितकरं कीर्तिनिकरं तव प्रत्तै रत्नैर्झटिति घटिता धर्मपरिषत् / अमन्दा मन्दारद्रुमकुसुमसौरभ्यसुभगा न किं चित्ते धत्ते भुवनभविनां मेदुरमुदम् ? . 'अशोक'स्ते श्लोकश्रवणजनितोऽयं जयति किं शिरो धुन्वन् भूयश्चपलदलदम्भादतिमुदः / समस्तोदस्तोद्यदुरितपटलस्य प्रतिभुवः शिवश्रीलाभस्य प्रथितगुणरत्नव्रजभुवः जगद्भानोर्जानोः सममसमसौरभ्यकलितं. पुरः के वा देवास्तव न दधते 'पुष्पनिकरम्' / प्रसर्पत्कन्दर्पस्मयमथनमुक्ताश्रव ! भवत्प्रभावादस्यापि व्रजति नियतं बन्धनमधः गलद्रोधं बोधं निजनिजगिरा श्रोतृनिकरा लभन्ते हन्तेह त्वदुदित'गिरा' नात्तभिदया। 105 // 33 // // 34 // // 35 //