________________ // 24 // 16 इदं चित्रं काष्ठाद् बहिरपसृताज्जातमहितो न यत् स्पष्टं काष्ठापसरणरसं हन्त ! वहति द्विषत्तापव्यापप्रथनपटुभिर्मोहमथनैः प्रतापराक्रान्तस्तव न कमठः कान्तिमधृत। .. महोभिः सूरस्य प्रथितरुचिपूरस्य दलितद्युतिस्तोमः सोमः श्रयति किमु शोभालवमपि ? विलासः पद्मानां भवति तमसामप्युपशमः प्रलीयन्ते दोषा व्रजति भवपङ्कोऽपि विलयम्। प्रकाशः प्रोन्मीलेत् तव जिन ! जगज्जित्वरगुण ! प्रतापानां भानोरिव जगदभिव्याप्तिसमये किमु स्पष्टैः कष्टैः किमु परिणतैरासनशतैः प्रयोगा योगानां नहि भववियोगाय पटवः / त्वदाज्ञा चेदेका शिरसि न विवेकादुपहता विना वीर्यं कार्यं न भवति नृणां भेषजगणैः नराः शीर्षे शेषामिव तव विशेषार्थविदुषः शतै राज्ञामाज्ञामिह दधति ये देव ! महिताम् / अविश्रामैस्तेषामहमहमिकायातनृपतिप्रणामैरुद्दामैः समुदयति कीर्तिर्दिशि दिशि जगत्स्वामी चामीकररजतरत्नोपरचितैविशालैस्त्वं सालैः परमरमणीयद्युतिरसि / तव ब्रूते भूतेः समवसरणक्ष्माप्यतिशयं ध्वजव्याजभ्राजत्सरसरसनादुन्दुभिरवैः सभायामायाताः सुरनरतिरश्चां तव गणाः स्फुटाटोपं कोपं न दधति न पीडामपि मिथः / // 27 // // 28 // // 29 // 104