________________ // 18 // // 19 // // 20 // कथं प्रेत्याभ्येत्य त्रिदशतरुपुष्पस्रजमहो शुभायत्तां धत्तां त्रिदशतरुणी तस्य हृदये? . पिता त्वं बन्धुस्त्वं त्वमिह नयनं त्वं मम गतिस्त्वमेवासि त्राता त्वमसि च नियन्ता नतनृपः / भजे नान्यं त्वत्तो जगति भगवन् ! दैवतधिया दयस्वातः प्रीतः प्रतिदिनमनन्तस्तुतिसृजम् जगज्जैत्रैश्चित्रैस्तव गुणगणैर्यो निजमनः स्थिरीकृत्याकृत्याद् भृशमुपरतो ध्यायति यतिः / इहाप्यस्योदेति प्रशमलसदन्तःकरणिकासमप्रेमस्थेमप्रसरजयिनी मोक्षकणिका फणैः पृथ्वी पृथ्वी कथमिह फणीन्द्रः सुमृदुभि- . हरिनागा रागात् कथमतिभरक्लान्ततनवः / क्व कूर्मो वा धत्तां निभृततनुरेको जलचर: पटुर्धर्मः शर्मप्रभव ! तव तां धर्तुमखिलाम् . ज्वलन् ज्वालाजालैर्खलनजनितैर्देवं ! भवता बहिः कृष्टः काष्ठात् कमठहठपूरैः सह दितात् / नमस्कारैः स्फारैर्दलितदुरितः सद्गुणफणी किमद्यापि प्रापि प्रथितयशसा नेन्द्रपदवीम् . महारम्भा दम्भाः शठकमठपञ्चाग्निजनितास्त्वया दीर्णाः शीर्णाखिलदुरितकौतूहलकृता। किमाश्चर्यं वर्यं तदिह निहताः किं न रविणा विनायासं व्यासं रजनिषु गता ध्वान्तनिकरा: ज्वलत्काष्ठकोडात् फणिपतिसमाकर्षणभवं यशः कर्षत्युच्चैस्तव परयश:कारणगुणात् / . 173 // 21 // // 22 // // 23 //