________________ .. // 12 // // 13 // // 14 // प्रसर्पदानाम्भःसुभगकरटानां करटिनां घट तस्य द्वारि स्फुरति सुभटनामपि न किम् ? महालोभक्षोभव्यसनरसिकं चेतसि यदि / स्फुरेद् वारं वारं कृतभवनिकारं त्वदभिधम् / तमोहासादासादितततविकासाय मुनये तदा मायाकाया न खलु निखिला द्रुह्यति निशा स्थलीषु प्रभ्रष्टान् शिवपथपथः सङ्घभविनो विना त्वामन्यः कः पथि नयति दीपानुकृतिभिः / प्रभावादुद्भूतस्तव शुचिरितः कीर्तिनिकरः करोत्यच्छं स्वेच्छं कलिमलिनमहाय भुवनम् विलोलैः कल्लोलैर्जवनपवनैर्दुर्दिनशताहतोद्योतैः पोतैनिकटविकटोद्यज्जलचरैः।' जनानां भीतानां त्वयि परिणता भक्तिरवना (नौ) जगद्बन्धो ! सिन्धोर्नयति विलयं कष्टमखिलम् अटव्यामेकाकी नतनिखिलनाकीश ! पतितो वृतायां कीनाशैरयि ! (रिव)हरिकरिव्याघ्रनिकरैः / जनस्तत्पूतात्मा भवन इव भीति न लभते मनश्चेत् त्वन्नामस्मरणकरणोत्कं वितनुते जपन्तस्त्वन्नाम प्रतिदशमि मन्त्राक्षरमयं दशानामाशानां श्रियमुपलभन्ते कृतधियः / दशाप्याचाम्लैस्तु त्रिदशतरवः सन्निदधते कृतैः किं वा न स्याद् दशनिरयवासार्तिविलयः स्रजं भक्त्या जन्तुर्घनसुमनसां सौरभमयीं न यः कण्ठे धत्ते तव भवभयार्तिक्षयकृतः / 102 __ // 15 // // 16 // // 17 //