________________ // श्रीगोडीपार्श्वस्तवनम् // // 6 // // 7 // // 8 // स्मरः स्मारं स्मारं भवदवथुमुच्चैर्भवरिपोः पुरस्ते चेदास्ते तदपि लभते तां बत दशाम् / रिपुर्वा मित्रं वा द्वयमपि समं हन्त ! सुकृतोज्झितानां किं ब्रूमो जगति गतिरेषास्ति विदिता दृशां प्रान्तैः कान्तैर्नहि वितनुषे स्नेहघटनां प्रसिद्धस्ते हस्ते न खलु कलितोऽनुग्रहविधिः / भवान् दाता चिन्तामणिरिव समाराधनकृतामिदं मत्वा सत्त्वा दधति तव धर्मे दृढरतिम् स सेवाहेवाकैः श्रित इह परैर्यः शुभकृते नियन्ता हन्तायं सजति गृहिणी गाढमुरसा / भवेदस्मात् कस्मात् फलमनुचितारम्भरभसालतावृद्धिर्न स्याद् दवदहनतो जातु जगति प्रदीपं विद्यानां प्रशमभवनं कर्मलवनं . महोमाहद्रोहप्रसरदवदाने(ते)न विदितम् / . स्फुटानेकोद्देशं शुचिपदनिवेशं जिन ! तवोपदेशं नि:क्लेशं जगदधिप ! सेवे शिवकृते / अगण्यैः पुण्यैश्चेत् तव चरणपङ्केरुहरजः शुचिश्लोका लोकाः शिरसि रसिका देव ! दधते तदा पृष्ठाकृष्टा धृतधृतिरमीषां कृतधियामविश्रान्तं कान्तं त्यजति न निशान्तं जलधिजा उदारं यस्तारं तव समुदयत्पूषविलसन्मयूषे प्रत्यूषे जिनप ! जपति स्तोत्रमनिशम् / // 9 // // 10 // // 11 // . 171