________________ पतन्महाशैलशिलारवेण गलत्प्रमीलीकृतपद्मनाभे / श्रियं लभन्ते भवतः प्रभावात् सांयात्रिका वीतभियः पयोधौ // 105 // जलोदरा दत्तदरा न जातु ज्वराःप्रशान्तप्रसरा भवन्ति / न पुष्टतां कुष्टरुजः प्रमेहा विदीर्णदेहा न समुद्भव(वह)न्ति।। 106 / / भगन्दरः प्राणहरः कथं स्यात् क्षणाद् व्रणानां क्षयमेति पीडा / ब्रूमः किमन्यत् तव नाममन्त्राद्रुजः समस्ता अपि यान्ति नाशम्॥१०७।। आपादकण्ठार्पितशृङ्खलौघा व्रणैर्विशीर्णाः प्रतिगात्रदेशम् / व्यथावशेन क्षणमप्यशक्ता उच्छ्वासमुल्लासयितुं समन्तात् // 108 // दशामवाप्ता भृशशोचनीयां विमुक्तरागा निजजीवितेऽपि / नरा जपन्तस्तव नाममन्त्रं क्षणाद् गलद्बन्धभया भवन्ति // 109 / / इत्यष्टभीतिदलनप्रथितप्रभावं नित्यावबोधभरबुद्धसमग्रभावम् / विश्वातिशायिगुणरत्नसमूहधाम ! त्वामेव देव ! वयमीश्वरमाश्रयामः।।११०॥ जिन ! कृपाढ्य ! भवन्तमयं जनस्त्रिजगतीजनवत्सल ! याचते / प्रतिभवं भवतो भवतात् कृपारसमये समये परमा रतिः // 111 // प्रणम्रहरिमण्डलीमुकुटनीलरत्नत्विषां / स्वकीयदशनत्विषामपि मिथः प्रसङ्गोत्सवे। सृजन्निवं कलिन्दजा सुरतरङ्गिणीसङ्गमं भवान् भवतु भूतये भवभृतां भवत्सेविनाम् // 112 // इति जिनपतिर्भूयो भक्त्या स्तुतः शमिनामिन- . त्रिदशहरिणीगीतस्फीतस्फुरद्गुणमण्डलः। प्रणमदमरस्तोमः कुर्याज्जगज्जनवाञ्छितप्रणयनपटुः पार्श्वः पूर्णां यशोविजयश्रियम् . || 113 // 169