________________ भवद्वचःपानकृतां न नाकिनां सुद्धमाणां फलभोगनिष्ठता / द्विधाप्यमीषां न ततः प्रवर्तते फलस्त्रपाभिश्च न भारनम्रता // 81 / / प्रकाममन्तःकरणेषु देहिनां वितन्वती धर्मसमृद्धिमुच्चकैः / चिरं हरन्ती बहु पङ्कसङ्करं सरस्वती ते प्रथते जगद्धिता // 82 // स्फुरन्ति सर्वे तव दर्शने नयाः पृथग् नयेषु प्रथते न तत् पुनः / कणा न राशौ किमु कुर्वते स्थिति कणेषु राशिस्तु पृथग् न वर्तते / / 8 / / स्वतः प्रवृत्तैर्जिन ! दर्शनस्य ते मतान्तरैश्चेत् क्रियते पराक्रिया। तदा स्फुलिङ्गैर्महतो हविर्भुजः कथं न तेजःप्रसरत् पिधीयते ? / / 84 / / स्फुरस्नयावर्तमभङ्गभङ्गतरङ्गमुद्यत्पदरत्नपूर्णम् / महानुयोगहदिनीनिपातं भजामि ते शासनरत्नराशिम् // 85 // तवोपदेशं समवाप्य यस्माद् विलीनमोहाः सुखिनो भवामः / नित्यं तमोराहुसुदर्शनाय नमोऽस्तु तस्मै तव दर्शनाय // 86 // न नाम हिंसाकलुषत्वमुच्चैः श्रुतं न चानाप्तविनिर्मितत्वम् / परिग्रहो नो नियमोज्झितानामतो न दोषस्तव दर्शनेऽस्ति // 87 // 'महाजनो येन गतः स पन्था' इति प्रसिद्धं वचनं मुनीनाम् / महाजनत्वं च महाव्रतानामतस्तदिष्टं हि हितं मतं ते // 88 // समग्रवेदोपगमो न केषुचित् क्वचित् त्वसौ बुद्धसुतेऽपि वृत्तिमान् / अशेषतात्पर्यमति प्रसञ्जकं ततोऽपुनर्बन्धकतैव शिष्टता // 89 / / न वासनायाः परिपाकमन्तरा नृणां जडे तादृशतेति सौगताः। न कापिलास्तु प्रकृतेरधिक्रियाक्षयं तथा भव्यतयेति ते गिरः // 90 // इहापुनर्बन्धकभावमन्तरा बिभर्ति वाणी तव कर्णशूलताम् / विना किमारोग्यमति ज्वरोदये न याति मिष्टान्नततिर्विषात्मताम्॥ 91 / / शास्त्राणि हिंसाद्यभिधायकानि यदि प्रमाणत्वकथां भजन्ते। हविर्भुजः किं न तदातितीव्राः पीयूषसाधर्म्यमवाप्नुवन्ति // 92 // . . . . 167