________________ वनं यथा पुष्पभरेण पावनं ग्रहव्रजैर्वा गगनं प्रकाशिभिः / तथा सदा सङ्घजनैरलङ्कृतैर्विराजते त्वद्भवनं श्रिया घनम्॥ 69 // प्रसारयेत् कः पुरतः स्वपाणी कल्पद्रुमस्य त्वयि दानशौण्डे? / काष्ठत्वसंसर्गजदोषजास्य श्रुता हि लीनालिमिषात् कुकीतिः // 70 // लब्ध्वा भवन्तं विदितं वदान्यं याचेत चिन्तामणिमादृतः कः? / विधोरिवाङ्केन महस्विनोऽपि पाषाणभावेन दितं यशोऽस्य // 1 // अभ्यर्थनीयाऽपि न कामधेनुः प्रसद्य सद्यो ददति त्वयीश!। इयं पशु किमनो धिनोतु पयोभरैरेव ने दानकीर्त्या . // 72 // न पाटवं कामघटस्य दाने भिदेलिमस्योपलतः क्षणेन। .. सदा प्रदानोत्सवकान्तकीर्तिं विहाय तत्त्वां सजतीह को वा ? // 73 // त्वत्तः प्रसीदन्ति हि कामधेनुकल्पद्रुचिन्तामणिकामकुम्भाः। त्वदप्रसत्तौ च तदप्रसत्तिरिति त्वमेवासिं बुधैनिषेव्यः // 74 // कायप्रयासेन निषेव्यमाणाश्चिरं नृपाः स्वल्पकृपा भवन्ति। भवांस्तु भक्त्यैव तनोति सर्वमनोरथान् इत्यखिलातिशायी // 75 // स्वर्गापवर्गार्पणसावधानं त्वां याचते वैषयिकं सुखं कः?। कल्पद्रुमं को बदरीफलानि याचेत वा चेतनया विहीनः // 76 // त्वदीयसेवा विहिता शिवार्थं ददाति भोगानपि चानुषङ्गात् / कृषीबलाः शस्यकृते प्रवृत्ताः पलालजालं त्वनुषङ्गसङ्गि // 77 // सितोपला त्वद्वचसा विनिर्जिता तृणं गृहीत्वा वदने पलायिता / क्षणादसङ्कुच्यत हारहूरया ततस्त्र(त्र)पानिर्गतकान्तिपूरया // 78 // रसैगिरस्ते नवभिर्मनोरमाः सुधासु दृष्टा बहुधापि षड् रसाःअतोऽनयोः कः समभावमुच्चरेद् वरेण्यहीनोपमितिविडम्बना।। 79 // तृणैकजात्येषु यदल्पसारता विचक्षणैरिक्षुषु दिक्षु गीयते / समग्रसारा तव भारती ततः कथं तदौपम्यकथाप्रथाऽसहा // 80 // 166