________________ अलौकिकी योगसमृद्धिरुच्चकैरलौकिक रूपमलौकिकं वचः / न लौकिकं किञ्चन ते समीक्ष्यते तथापि लोकत्वधिया हताः परे 57 / / विनैव दानं ततदानकीर्तये विना च शास्त्राध्ययनं विपश्चिते। विनानुरागं भवते कृपावते जगज्जनान्दकृते नमो नमः // 58 // स्मरापहस्याप्यभवस्य विस्फुरत्सुदर्शनस्याप्यजनार्दनस्य च।। न नाभिजातस्य तवातिदुर्वचं स्वरूपमुच्चैः कमलाश्रयस्य // 59 // चतुर्मुखोऽङ्गीकृतसर्वमङ्गलो विराजसे यन्नरकान्तकारणम् / विरञ्चिगौरीशमुकुन्दसञ्जिता सुरत्रयी तत् त्वयि किं न लीयते 60 // वृथा कथासौं परदोषघोषणैस्तव स्तुतिविश्वजनातिशायिनः / प्रसिद्धिहीनादनपेक्ष्य तुल्यतां भवेदलीकातिशयान्न वर्णना // 61 / / अलं कलङ्कर्भणितैः परेषां निजैर्गुणैरेव तवास्ति शोभा। महोभरैरेव तव प्रसिद्धिः पतङ्गनिन्दानिकरैः किमस्य ? // 62 / / कृतप्रसर्पद्रथचक्रचूर्णितक्षमारजःकैतवपापचूर्णनैः / अनारतं त्वं जिन ! सङ्घनायकैरुपास्यते (से) मङ्गलनादसादरैः।। 63 / / स्त्रियः प्रियध्वानमुपेत्य तन्वते तथा पुरस्ते जिन ! सङ्घसङ्गताः / यथा तदाकर्णनजातविस्मया भवन्ति सर्वाः स्तिमिताः सुरप्रियाः॥६४॥ प्रियस्वनैः सङ्घजनैस्त्वदालयप्रदक्षिणादानपरायणैर्घनैः / महान्तरीपं परितः प्रसृत्वरा अनुक्रियन्ते जलधर्महोर्मयः // 65 // मृदङ्गवेणुध्वनिभिर्विसृत्वरैः समुच्छलत्पञ्चममूर्छनाभरैः / अनारतं सङ्घवृते त्वदालये शिवश्रियो नृत्यविधिविजृम्भते // 66 // जगज्जनानन्दन ! चन्दनद्रवैस्त्वदङ्गमभ्यर्च्य ससान्द्रकुङ्कुमैः / कथं भजन्ते भुवि सङ्घमानवाः समग्रतापप्रशमेन निर्वृतिम् ? // 67 // अवेक्ष्य धूमं तव चैत्यमूर्धनि प्रसर्पिकृष्णागुरुधूपसम्भवम् / समुन्नमन्मेघधिया कलापिनामुदेत्य विश्रान्तमकाण्डताण्डवम्॥ 68 // . 165