________________ पुष्पाणि पाणिर्न ललौ यदीयस्त्वदीयपूजाविधये प्रमादात् / अमुष्य दूरे भवदुःखहानिर्भाग्योज्झितस्येव सुवर्णखानिः // 45 // भूयासमिन्द्राय॑ ! भवद्भुजिष्यस्तवं क्रमाम्भोजमधुव्रतः स्याम् / वहेय मौलौ परमां त्वदाज्ञां स्तवे भवेयं तव सावधानः // 46 // त्वमीशिताहं तव सेवकश्चेत् ततः परा का पदवी विशिष्टा?। . समेधमानेऽत्र हि सन्निकर्षे पुरन्दरद्धिः प्रथते पुरस्तात् // 47 // परेषु दोषास्त्वयि देव ! सद्गुणा मिथोऽवलेपादिव नित्यमासते। स्फुरन्ति नेन्दावपतन्द्रचन्द्रिकास्तमोभरा वा किमु सिंहिकासुतेः॥४८॥ विशङ्कमङ्के दधते विलासिनीविशिष्टमिच्छन्ति च देवतायशः / परे तदेते ज्वलता हविर्भुजा वितन्वते तापसमापनार्थिताम् // 49 // कुदृष्टिभिर्देवतया श्रितेषु वा परेषु दोषोऽस्ति न नाम कश्चन / न मूढरूप्यभ्रमभाजनेष्वपि प्रवर्तते रङ्गगणेषु दुष्टता // 50 // सरागता चेज्जिनदेवमाश्रयेत् तमस्तदा तिग्मरुचं पराभवेत् / विरागता वा यदि तं न संश्रयेत् तदा प्रकाशोऽपि न भानुमालिनम्।।५१। गवां विलासस्तव देव ! भास्वतस्तमोभरं घ्नन्ति भुवि प्रसृत्वरम् / अशेषदोषोपशमैकवृत्तयः प्रकाशमन्तः परमं प्रकुर्वते // 52 // इदं महच्चित्रमहीनजातिजोऽप्युदग्रभोगप्रसरात् पराङ्मुखः / जनार्दनायोगकृतप्रसिद्धिभाग् न वैनतेयश्रियमातनोऽसि न // 53 // जिनाऽसहायेन विनिर्जितक्रुधा विना जिगीषां च विना रणोत्सवम् / त्वया जितं यद द्विषतां कदम्बकं जगज्जनानन्दकरं न किन्नु तत्।।५४|| उपेक्षमाणोऽप्युपकृत्य कृत्यविज्जगत्त्रयीं यद् दुरिताददीधरः / परः सहस्रा अपि हन्त ! तत्परे यशो न शोधुं निरताः प्रतारकाः // 55 हरेः समीपे हरिणा यदासते स्फुरन्ति नागाः पुरतो गरुत्मतः / अयं प्रभावस्तव कोऽप्यनुत्तरो विपश्चितां चेतसि हर्षवर्षदः // 56 // 164