________________ त्वन्मौलिविस्फारफणामणीनां भाभिर्विनिर्यत्तिमिरासु दिक्षु / स्वकान्तिकीर्तिप्रशमात् प्रदीपाः शिखामिषात् खेदमिवोगिरन्तिी।३३।। ध्यानानले सप्तभयेन्धनानि हुतानि तीव्राभयभावनाभिः / इतीव किं शंसितुमीश ! दधे मौलौ त्वया सप्तफणी जनेभ्यः // 34 // अष्टापि सिद्धीयुगपत् प्रदातुं किमष्ट मूर्तीस्त्वमिहानतानाम् / सप्तस्फुरद्दीप्तफणामणीनां क्रोडेषु सक्रान्ततनुर्दधासि // 35 // यद्येकनालानि समुल्लसेयुः सरोवरे कोकनदानि सप्त / तदोपमीयेत तवेश ! मौलौ तैरुच्चकैः सप्तफणी प्रदीप्रा // 36 // भवेषु तीर्थेश ! चतुर्षु सारं मानुष्यकं यत्र तवास्ति सेवा। श्लाघ्यो हि शैलेषु सुमेरुरेव यत्राप्यते कल्पमहीरुहश्रीः // 37 // नृजन्म दुःखैकगृहं मुनीन्द्रैः प्रशस्यते त्वत्पदसेवयैव / सौरभ्यलोभात् सुधिय: फणीन्द्ररप्यावृतं चन्दनमाद्रियन्ते // 38 // अवाप्य मानुष्यकमप्युदारं न येन तेने तव देव ! सेवा / उपस्थिते तेन फले सुरद्रोः करार्पणालस्यमकारि मोहात् // 39 / / जनुर्मनुष्यस्य दिवः शतेन क्रीणामि चेन्नास्मि तदाप्यविज्ञः / यत्र त्वदाज्ञाप्रतिपत्तिपुण्यादमुत्र तज्जैत्रमहोदयातिः // 40 // स्तोमैः सुमानां तव देव ! पूजा पूज्यत्वहेतुर्जगतां जनानाम् / भवत्तनौ स्नात्रजलाभिषेकः साक्षादयं पुण्यसुद्रुसेकः // 41 // गुणैस्त्वदीयैर्ग्रथितां स्तुतिस्रजं स्वयं च ये कण्ठगतां वितन्वते / अभङ्गसौभाग्यवशीकृता इव श्रियो वरीतुं परितो भ्रमन्त्यमुम्॥ 42 // विनोदवत् त्वन्नुतिगोचरं मनो घनोत्सवे मन्नयने त्वदीक्षिणी / त्वदङ्ग्रिनम्रो मम मौलिरालयः श्रियः प्रियस्त्वज्जपविस्तर:करः // 43 / / त्वदास्यसंवीक्षणशर्मवञ्चिते नयोज्झितानां नयने निरर्थके।। भवत्कथाकर्णनरागहीनयोर्न भारतोऽन्यत् फलमस्ति कर्णयोः।। 44 // 13