________________ रागं च कोपं च न नाथ ! धत्से स्तुत्यस्तुतीनां च फलं प्रदत्से। लोकोत्तरं किञ्चिदिदं त्वदीयं शीलं समाशीलितविश्वलीलम् // 21 // त्वद्ध्यानबद्धादरमानसस्य त्वद्योगमुद्राभिनिविष्टबुद्धेः / तवोपदेशे निरतस्य शश्वत् कदा भविष्यन्ति शमोत्सवा मे // 22 // अकुर्वतः सम्प्रति लब्धबोधि समीहमानस्य परां च बोधिम् / . न साम्प्रतं किञ्चन साम्प्रतं तद् दयस्व दीनं परमार्थहीनम् // 23 // निर्वेदमुख्यं च भवन्तमेव नाथन्ति नाथं यतयो न चान्यम् / सुधार्थमुच्चैविबुधाः सुधांशुं नाथन्ति नान्यं ग्रहमप्युदारम् // 24 // त्वत्तो न तीर्थेश ! पर: कृपालुमत्तः कृपापात्रमपीह नान्यः / अतोऽस्ति योग्योऽवसरः कृपाया ब्रुवे किमन्यज्जगदीशितारम्॥ 25 / अथास्ति चेदेष जनः समन्तुस्तथाप्यहो ! ते किमुपेक्षणीयः ? / सकण्टकं किं न सरोजखण्डमुन्मीलयत्यंशुभिरंशुमाली . // 26 // कृपावतां न स्वकृतोपकारे सदोषनिर्दोषविचारणास्ति। समं घनः सिञ्चति काननेषु निम्बं च चूतं च घनाभिरद्भिः // 27 // मुखं प्रसन्न हसितेन्दुबिम्बं नेत्रे कृपार्दै जितपद्मपत्रे / पद्मासनस्था च तनुः प्रशान्ता न योगमुद्रापि तवाप्युतान्यैः // 28 // त्वद्योगमुद्रामपि वीक्षमाणाः प्रशान्तवैराः पुरुषा भवन्ति। विशिष्य वक्तुं कथमीश्महे तत् तवान्तरङ्ग प्रशमप्रभावम् // 29 // मूर्तिस्तव स्फूर्तिमती जनातिविध्वंसिनी कामितचित्रवल्ली / विश्वत्रयीनेत्रचकोरकाणां तनोति शीतांशुरुचां विलासम् // 30 // फणामणीनां घृणिभिर्भुवीश ! मूर्तिस्तवाभाति विनीलकान्तिः। उद्भिनरक्ताभिनवप्रवालप्ररोहमिश्रेव कलिन्दकन्या . // 31 // तवेश ! मौलौ रुचिराः स्फुरन्ति फणा: फणीन्द्रप्रवरस्य सप्त / तमोभरं सप्तजगज्जनानां धृता निहन्तुं किमु सप्त दीपाः // 32 // 12