________________ खलैः किमेतैः कलिकाललालितैर्विपश्चितां नाथ ! यदि प्रसीदसि / पराक्रमः कस्तमसां महीयसां तनोति भासं महसां पतिर्यदि // 9 // अमूढलक्ष्यत्वमिहेश ! दुर्जने न सम्यगब्धाविव तत्त्वचालनम् / कथा नु कोलाहलतां विगाहते ततः कथं नाथ ! बुधः प्रवर्तताम्॥१०॥ यथा पथा यात्युपमृद्य कण्टकान् जनो मनोऽभीहितबद्धलालसः / त्वदाज्ञया देव ! निहत्य दुर्जनान् तथा विधेयैव कथा विपश्चिता॥११॥ संवादसारा भवदागमा यज्जगच्चमत्कारकराः स्फुरन्ति / उच्छृङ्खलानां नियतं खलानां मुखे मषीलेपमहोत्सवोऽसौ // 12 // भवन्तमुत्सृज्य विलीनरागं परं भजन्ते स्वहितार्थिनो ये / तेषां वयं देव ! सचेतनानां विद्यो विशेषं किमचेतनेभ्यः // 13 // मोहावृतानामपि शास्त्रपाठो हहा महानर्थकरः परेषाम् / रागैकलुब्धस्य हि लुब्धकेभ्यो वधायं नूनं हरिणस्य कर्णौ // 14 // शमो दमो दानमधीतिनिष्ठा वृथैव सर्वं तव भक्तिहीनम् / भावक्रियां नैव कविप्रबन्धो रसं विना यच्छति चारुबन्धः // 15 // अन्तर्मुहूर्तं विहितं तपोऽपि त्वदाज्ञया देव ! तमस्तृणेढि / विना तु तां हन्त ! युगान्तराणि कथापि न क्लेशकृतां शिवस्य।। 16 / / अज्ञानजं बन्धनमङ्गभाजां ज्ञानं विना देव ! कथं व्यपैति।। अधर्मजं जाड्यमुपैति नाशं न घर्मरश्मेहि विना प्रतापम् // 17 // न ज्ञानमात्रादपि कार्यसिद्धिविना चरित्रं भवदागमेऽस्ति। अपीक्षमाणः पदवीं न पङ्गुविना गतिं हन्त ! पुरं प्रयाति // 18 // संसारसिन्धाविह नास्ति किञ्चिदालम्बनं देव ! विना त्वदाज्ञाम् / तया विहीनाः परकष्टलीना हहा महामोहहताः पतन्ति // 19 // महोषधी जन्मजरामयानां महार्गला दुर्गतिमन्दिरस्य / खानिः सुखानां कृतकर्महानिराज्ञा त्वदीयास्ति जिनेन्द्रचन्द्र ! // 20 // 161