SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ (परावर्तना :- पुण्णत्थी, सुरभोगट्ठी तथा वयसा, कायसा तथा माणं.... (4) तथा किव्विसिं, अभिओगं, आसुरिं, संमोहं तथा उप्पायणदोस..... (10) तथा धम्मे 'अधम्मसन्नं, उम्मग्गे मग्गसन्नं, मग्गे उम्मग्गसन्नं, साहुसु असाहुसन्नं, असाहुसु साहुसन्नं, जीवे अजीवसन्नं, अजीवे जीवसन्नं, मुत्ते अमुत्तसन्नं, अमुत्ते मुत्तसन्नं ति) ॥श्रीशर्खेश्वरपार्श्वजिनस्तोत्रम् // अनन्तविज्ञानमपास्तदोषं महेन्द्रमान्यं महनीयवाचम् / गृहं महिम्नां महसां निधानं शर्केश्वरं पार्श्वजिनं स्तवीमि // 1 // महानुभावस्य जनुर्जनुष्मतां गुणस्तवैरेव दधाति हृद्यताम् / घनं वनं कान्तवसन्तसम्पदा पिकीरवैरेव समृद्धमीक्ष्यते // 2 // अवर्ण्यसंवर्णनकश्मलाविलः स्वकार्यरक्तस्य कवेगिरां रसः। गुणस्तवैर्देव ! तवातिनिर्मलो भवत्यवश्यं कतकोत्करोपमैः // 3 // गुणास्त्वदीया अमिता इति स्तुता-वुदासते देव ! न धीधना जनाः। मणिष्वनन्तेषु महोदधेरहो न किं प्रवृत्तेरुपलम्भसम्भवः ? // 4 // भवद्गुणैरेव न चेदवेष्टयं स्वयं गिरं चित्रकवल्लिमुच्चकैः। तदा न किं दुर्जनवायसैरसौ क्षणाद् विशीर्येत निसर्गभीषणैः // 5 // न जानते नाथ ! यथा पथ:स्थिति प्रगल्भमानाश्च नृपानुपासते / श्रियं लभन्ते च विशृङ्खलाः खला इतीदमुच्चैः कलिकालचेष्टितम्।।६॥ अमीषु तीर्थेश ! खलेषु यत् पटुर्भवद्भुजिष्यस्तदिहासि कारणम् / हविर्भुजां हेतिषु यन्न दह्यते करः परस्तत्र गुणो महामणेः // 7 // कलौ जलौघे बहुपङ्कसङ्करे गुणव्रजे मज्जति सज्जनाजिते / प्रभो ! वरीवति शरीरधारिणां तरीव निस्तारकरी तव स्तुतिः // 8 // 10
SR No.004455
Book TitleShastra Sandesh Mala Part 05
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy