________________ // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता / वसत्यद्य न सोऽत्रेति व्यवहारौचिती ततः यत्र तत्र गतस्यापि तद्वासित्वं निगद्यते / तद्वासवृत्तिभागित्वे ज्ञेयं तत्त्वौपचारिकम् संग्रहो वसतिं ब्रूते जन्तोः संस्तारकोपरि / ऋजुसूत्रः प्रदेशेषु स्वावगाहनकृत्सु खे तेष्वप्यभीष्टसमये न पुनः समयान्तरे / चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः / एषानुयोगद्वारेषु दृष्टान्तमययोजना . शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धा स्थूलगोचराः / . फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये कियाक्रियाफलौचित्यं गुरुः शिष्यश्च यत्र न / . देशनानिश्चयस्यास्य पुंसां मिथ्यात्वकारणम् . परिणामे नयाः सूक्ष्मा हिता नापरिणामके / न वातिपरिणामे च चक्रिणो भोजनं यथा आमे घटे यथा न्यस्तं जलं स्वघटनाशकृत् / तथाऽपरिणते शिष्ये रहस्यं नयगोचरम् पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते.। अधिकारस्त्रिभिः प्रायो नयैर्युत्पत्तिमिच्छताम् तेनादौ निश्चयोद्ग्राहो नग्नानामपहस्तितः / रसायनीकृतविषप्रायोऽसौ न जगद्धितः उन्मार्गकारणं पापं परस्थाने हि देशना / बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // 145