________________ // 57 // -- // 58 // // 59 // // 60 // . // 61 // // 62 // पञ्चप्रकार: प्रत्येकं पञ्चविंशतिधा भवेत् / प्रत्येकवृत्तौ प्राक्पक्षः स्याद्गेहेष्विव वाजिनाम् प्रत्येकवृत्तिः साकाङ्क्षा बहुत्वेनेति सोऽप्यसन् / ऋजुसूत्रस्ततो ब्रूते प्रदेशभजनीयताम् भजनाया विकल्पत्वाव्यवस्थैवमपैति तत् / धर्मे धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः जीवे स्कन्धेऽप्यनन्ते नोशब्दाद्देशावधारणम् / इति शब्दनयं प्राह समासद्वयशुद्धिमान् ब्रूते समभिरूढस्तु भेदाप्तेरत्र सप्तमीम् / देशप्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् प्रस्थकार्थं व्रजामीति वने गच्छन् ब्रवीति यत् / आदिमो ह्युपचारोऽसौ नैगमव्यवहारयोः अत्र प्रस्थकशब्देन क्रियाविष्टवनैकधीः / प्रस्थकेऽहं व्रजामीति ह्युपचारोऽपि च स्फुटः छिनद्मि प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च / करोमि चेति तदनूपचाराः शुद्धताभृतः तमेतावति शुद्धौ तूत्कीर्णनामानमाहतुः / / चितं मितं तथा मेयारूढमेवाह संग्रहः प्रस्थकश्चर्जुसूत्रस्य मानं मेयमिति द्वयम् / न कर्तृगताद्भावाच्छब्दानां सोऽतिरिच्यते लोके च तिर्यग्लोके च जम्बूद्वीपे च भारते / क्षेत्रे तद्दक्षिणाः च पाटलीपुत्रपत्तने गृहे च वसतिः कोणे नैगमव्यवहारयोः / . अतिशुद्धौ तु निवसन् वसतीत्याहतुः स्म तौ . // 63 // // 64 // // 65 // // 66 // // 67 // // 68 // 144