________________ // 45 // = // 46 // = // 47 // = // 48 // = // 49 // = नैगमो देशसंग्राही व्यवहारर्जुसूत्रको / शब्दः समभिरूढश्चेत्येवमेव प्रचक्षते भावमौदयिकं गृह्णन्नेवम्भूतो भवस्थितम् / जीवं प्रवक्त्यजीवं तु सिद्धं वा पुद्गलादिकम् नोअजीवश्च नोजीवो न जीवाजीवयोः पृथक् / देशप्रदेशौ नास्येष्टाविति विस्तृतमाकरे सिद्धो निश्चयतो जीव इत्युक्तं यद्दिगम्बरैः / निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा आत्मत्वमेव जीक्त्वमित्ययं सर्वसंग्रहः / जीवत्वप्रतिभूः सिद्धेः साधारण्यं निरस्य न यज्जीवत्वं क्वचिद्रव्यभावप्राणान्वयात् स्मृतम् / विचित्र गमाकूतं तज्ज्ञेयं न तु निश्चयात्. धात्वर्थे भावनिक्षेपात् परोक्तं न च युक्तिमत् / . प्रसिद्धार्थोपरोधेन यन्नयान्तरमार्गणा शैलेश्यन्त्यक्षणे धर्मो यथा सिद्धस्तथाऽसुमान् / / वाच्यं नेत्यपि यत्तत्र फले चिन्तेह धातुगा उक्ता नयार्थास्तेषां ये शुद्ध्यशुद्धी वदेत् सुधीः / ते प्रदेशप्रस्थकयोर्वसतेश्च निदर्शनात् तथाहि-धर्माधर्माकाशजीवस्कन्धानां नैगमो नयः / तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः दासेन मे खरः क्रीतो दासो मम खरोऽपि मे / इति स्वदेशस्वाभेदात् पञ्चानामाह संग्रहः व्यवहारस्तु पञ्चानां साधारण्यं न वित्तवत् / इति पञ्चविधो वाच्यः प्रदेश इति मन्यते . 143 // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // 143