________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // तत्प्रसिद्धिश्च सामान्यविशेषाधुभयाश्रया / तदन्यतरसेन्यासे व्यवहारो हि दुर्घटः संग्रह: संगृहीतस्य पिण्डितस्य च निश्चयः / संगृहीतं पुरा जातिः पिण्डितं त्वपराः स्मृता एकद्वित्रिचतुःपञ्चषड्भेदा जीवगोचराः / भेदाभ्यामस्य सामान्यविशेषाभ्यामुदीरिताः उपचारा विशेषाश्च नैगमव्यवहारयोः / इष्टा ह्यनेन नेष्यन्ते शुद्धार्थे पक्षपातिना उपचारेण बहुलो विस्तृतार्थश्च लौकिकः / यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः दह्यते गिरिरध्वासौ याति स्रवति कुण्डिका / / इत्यादिरुपचारोऽस्मिन् बाहुल्येनोपलभ्यते विस्तृतार्थो विशेषस्य प्राधान्यादेष लौकिकः / . पञ्चवर्णादि भृङ्गादौ श्यामत्वादि विनिश्चयात् पञ्चवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् / न तद्बोधे विषयताऽपरांशे व्यावहारिकी भावत्वे वर्तमानत्वव्याप्तिधीरविशेषिता / ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः / .. क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् / नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः / . शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् . . . 141 // 27 // // 28 // // 29 // // 30 // // 31 // // 32 //