________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते / नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः स्वार्थे सत्याः परैर्नुन्ना असत्या निखिला नयाः / विदुषां तत्र नैकान्ता इति दृष्टं हि संमतौ बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः / . उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् अयं संक्षेपतो द्रव्यंपर्यायार्थतया द्विधा / द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः पृथक् तिर्यगूर्ध्वप्रचयिनः पर्यायाः खलु कल्पिताः / . सत्यं तेष्वन्वयि द्रव्यं कुण्डलादिषु हेमवत् आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा / वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः अयं द्रव्योपयोगः स्याद्विकल्पेऽन्त्ये व्यवस्थितः / अन्तरा द्रव्यपर्यायधीः सामान्यविशेषवत् पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति न पृथक् / यत्नैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते यथा लूनपुनर्जातनखादावेकतामतिः / तथैव क्षणसादृश्याद् घटादौ द्रव्यगोचरा तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थिनो मताः / सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रकौ / शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते निगमेषु भवो बोधो नैगमस्तत्र कीर्तितः / तद्भवत्वं पुनर्लोकप्रसिद्धार्थोपगन्तृता 140 // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //