________________ // 30 // // 32 // // 33 // // 2 // सर्ववेदिसमुद्घात-गतिरत्र न युज्यते / एकदा षड्दिशां व्याप्तिः, पराघातेन तत्र यत् दण्डमेकदिशं कृत्वा, चतुर्भिः समयैः परे। लोकपूरणमिच्छन्ति, न च (नैतत्) युक्त्यागमक्षमम् ईहापोहौ च मीमांसा, मार्गणा च गवेषणा। संज्ञा स्मृतिर्मतिः प्रज्ञा, सर्वमाभिनिबोधिकम् // नयोपदेशः // ऐन्द्रधाम हृदि स्मृत्वा नत्वा गुरुपदाम्बुजम् / नयोपदेशः सुधियां विनोदाय विधीयते सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः / न विवेचयितुं शक्यं विनापेक्षां हि मिश्रितम् यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः / तथापि स्पष्टबोध: स्यात् सापेक्षो दीर्घतादिवत् नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया / कोट्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् तेन सापेक्षभावेषु प्रतीत्यवचनं नयः / अभावाभावरूपत्वात् सापेक्षत्वं विधावपि सप्तभङ्ग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् / स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् / यथा नैयायिकैरिष्टा चित्रे नैकैकरूपधीः / नयप्रमाणभेदेन सर्वत्रैव तथार्हतैः अयं न संशयः कोटेरैक्यान्न च समुच्चयः / न विभ्रमो यथार्हत्वादपूर्णत्वाच्च न प्रमा // 3 // // 4 // // 7 // . 136