________________ // 10 // व्यञ्जनावग्रहस्थाने, चतुर्धा श्रुतनिश्रितम्। . केचित्क्षिपन्ति तदसत्, तदन्तर्भूतिसम्भवात् नाना-नानाविध-क्षिप्रा-ऽनिश्रिताऽनिश्रितध्रुवैः / षट्त्रिंशच्छ(त्रिशत)त भेदाः स्युः, सेतरावग्रहादिभिः // 11 // नानार्थानां बहुत्वं हि, पृथग्जात्यवभासिता / नानात्वेनैव तज्ज्ञप्ति-रबहुत्वं प्रचक्षते // 12 // प्रत्येकं बहुधर्माणां, ज्ञानं बहुविधं मतम् / प्रत्येकं स्वल्पधर्माणां, विज्ञानं तद्विपर्ययः // 13 // क्षिप्रं त्वरितमुत्पन्न-मक्षिप्रं तु विलम्बितम् / अनिश्रितमलिङ्गोत्थं, निश्रितं लिङ्गसम्भवम् // 14 // निश्चितं संशयातीतं, तेन ग्रस्तमनिश्चितम् / सर्वदा यत्तथा ग्राहि, ध्रुवं तच्चान्यदध्रुवम् // 15 // न निश्चितादयोऽज्ञानं, ज्ञानं यत्संशयादयः / वस्त्वेकदेशग्राहित्वं, समानं निश्चयेपि नः // 16 // ज्ञानं मिथ्यादृशां सर्व-मज्ञानमुपवर्णितम्। एकग्रहेपि सर्वस्य, ज्ञानं सम्यग्दृशां ग्रहात् // 17 // तत्त्वोपगममाहात्म्या-ज्ज्ञानमेवास्य संशये। प्रयोजनवशादेक-पर्यायग्रहणेपि च // 18 // सम्यग्दृशः संशयो वा, ज्ञानं ज्ञानोपयोगतः / मिथ्यादृशां किलाऽज्ञानं, सर्वो बोधस्तमन्तरा // 19 // सामान्यतो निरूप्यत्वा-न्मतेः कापि न वा क्षतिः। . ज्ञानाज्ञानविभागस्तु, ज्ञेयो फलविभागतः - // 20 // इतः 29 गाथास्तृतीयतरङ्गस्य त्रुटिताः, चतुर्थतरंगस्याप्याद्या / 29, 31 तमी य त्रुटिताः, अग्रेपि ग्रन्थ खण्डितः / 138