________________ // 57 // // 58 // / // 2 // परप्रत्यायने शब्दो, ह्यसाधारणकारणम् / . चेष्टापि शाब्दहेतुत्वात्, तदियं युज्यते गतिः मिथो मतिश्रुतभिदा, तदेवं सर्वहेतुभिः / दिशा प्रदर्शिताऽकम्प्र-सम्प्रदायपवित्रया / प्रौढिं ये विबुधेषु जीतविजयप्राज्ञाः परामैयरुस्तत्सातीर्थ्यभृतो नयादिविजयप्रांज्ञाः श्रयन्ति श्रियम् / तेषां न्यायविशारदेन शिशुना ज्ञानार्णवे निर्मिते, पूर्णो भाष्यवचोऽमृतैरतितरामाद्यस्तरङ्गोऽभवत् ग्रन्थान्तरं रत्नजिघृक्षयाऽन्ये, जडास्तडागं परिशीलयन्ति / रत्नाकरं जैनवचोरहस्यं, वयं तु भाष्यं परिशीलयामः नमोऽस्तु भाष्यकाराय, भगवन्मतभानवे / पराहतेषु तर्केषु, भाष्यजीवातुदायिने ' -- -- - 2/1 भेदपर्यायसुव्यक्तमथ तत्त्वनिरूपणात् / . निरूप्यते मतिज्ञान-मुद्देशकमसङ्गतम् / श्रुतनिश्रितमन्यच्च, तद्विधाऽवग्रहादिभिः। औत्पत्तिक्यादिकैर्भेदै-रेकैकं स्याच्चतुर्विधम् भिदाश्च ताश्चतस्रोऽव-ग्रहेहापायधारणाः / औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी अपग्रहोऽवग्रहः स्या-दीहा भेदगवेषणम् / इदमेवेत्यपायो धी-र्धारणा तदविच्युतिः अवग्रहेऽपि सामान्य-विशेषविषयं परे। .. प्राहुस्तेषामपायस्य, प्रवृत्तिरतिदुर्घटय // 1 // // 2 // // 3 // // 4 // // 5 // 134