________________ // 33 // // 34 // // 35 // // 36 // ... // 37 // // 38 // साम्प्रतं शब्दहेतुत्वा-न्मतिर्द्रव्यश्रुतं भवेत् / शुद्धा तु सा तदा तत्स्या-द्यदि ज्ञप्तिसमं भणेत् अस्वाभाव्याद् बहुत्वाच्च, न सर्वत्र गिरां गतिः। अपि प्रज्ञापनीयाना-मनन्तोंऽशो न्यबन्धि यत् अत एव च पूर्वज्ञा, नूनं षट्स्थानगामिनः / / समाक्षरा अप्यसमाः, श्रुताभ्यन्तरया धिया श्रुतानुसारिणी बुद्धि-र्मतिरेव यदिष्यते / तदा षट्स्थानता भज्येत्, स्वस्थाने वा मिथस्तयोः बुद्ध्या सामान्यया दृष्टान्, भाषते सम्भवेन यान् / श्रुतोपयुक्तस्ते तस्य, श्रुतमन्या मतिः स्मृता श्रुतमेव न ते किन्तु, श्रुतं भाषत एव यान् / परिणामो ध्वनेरेव, श्रुतं तद् भजना मतेः इतरत्रापि शब्दस्य, परिणामाद् भवेच्छ्रुतम् / मत्या श्रुतोपलब्ध्या वा, यदि नामसमं भणेत् तदा श्रुतोपयोगः स्या-च्छुतविज्ञप्तिहेतुभिः / प्रयोगः स्याद्ययं तु, नाक्षराद्य(रस्या)नुसारतः भेदो विषयभेदेन, हेतुभेदोपजीवी वा। नूनं मतिश्रुते भेत्तुं, दर्शितो व्याख्ययाऽनया श्रुतमेव श्रुतं ज्ञेयं, भाषासम्भवशालि वा / इतरत्र तदापत्ति-भिन्नानुभववगिरा अथवा बुद्धिदृष्टेऽर्थे, श्रुतं सत्येव भासते / इतरत्राऽप्ययं न्यायो, द्वयोः साम्ये परं भवेत् ज्ञात्वा वा श्रुतदृष्टार्थान्, ब्रुवतो ह्युभयं श्रुतम् / / भवेन्मत्युपयुक्तस्य, श्रुतं यदि समं भणेत् // 39 // // 40 // // 41 // // 42 // // 44 // 132