________________ // 8 // एवमुदन्याविजयो-ऽप्युष्णपरीषहजयस्तु तस्य मतः / / यो निश्छायाटव्यां गच्छन् ग्रीष्मे महाभीष्मे शुष्कगलतालुरसनो-ऽप्यतिदाहहतस्तपोविशेषेण। प्राणिदयाधृतबुद्धि-र्जलावगाहादि नातनुते // 6 // पतति महत्यपि शीते त्यक्त्वाऽकल्प्यांशुकं: समयविधिना। / कल्प्याम्बरपरिभोगी नगवदक्लृप्तालयविशेषः . . // 7 // शीताभि[नि]संपी(पा)ते-ऽप्यनभीप्सिततत्प्रतिक्रियोपायः / संसहते यच्छीतं शीतपरीषहजयः स मतः खरविषमककरेषु क्षितिप्रदेशेषु सुमृदुपट्टे वा। निद्रां विधिनाऽनुभव-नोपेत्यरति रति वा यत् . // 9 // शय्यापरीषहजयः स मुनेर्यच्च प्रतिक्रियाचरणम् / रोगेऽपि समयविधिना रोगपरीषहजयः स मतः // 10 // प्राक्तनकर्मफलमिदं नैष तपस्वी करोति मे किमपि / बाध्यमनेन शरीरं न तु दर्शनहक्चरित्राणि . // 11 // इति वधकेऽप्यविकृतधी-निहन्यमानोऽपि मुद्गरशराद्यैः / समतां बिभर्ति यो वध-परीषहस्तेन विजित: स्यात् // 12 // गच्छस्य तदितराणां परिभोगो ह्यशुषिरस्य दर्भादेः / समनुज्ञातस्तदुपरि शेते संस्तीर्य यो विधिना // 13 // आस्तीर्य तृणं वा य-श्चौरहतोपकरणे(णो) मुनिः शेते। तस्य तृणस्पर्शपरी-षहविजयस्तदधिसहनेन // 14 // नि:सङ्गस्य पवनवत् परिभावितबन्धमोक्षतत्त्वस्य। . नवकल्पविहारकृतो विरुद्धमार्गं च परिहरतः // 15 // यत्कण्टकादिदुःखे-ऽप्यस्मरणं यानवाहनांदीनाम् / चर्यापरीषहजयः स मुनेः संयमरथस्थस्य // 16 // 126 /