________________ स्वयमेव निर्यियासति भवनैर्गुण्योपलम्भतो यस्तु / स तु मुण्डकेवली स्या-दात्मैकार्थप्रवृत्तिगुणः // 22 // प्रणिधिप्रवृत्तिविघ्नजय-सिद्धिविनियोगचरणशुद्धिभवाः / बन्धं कषायभेदाः कुर्वन्त्याहारकयुगस्य // 23 // ननु च विशेषाश्रयणे संयमसम्यक्त्वयोः क इव मन्तुः / यत् सकषायेष्विष्टो नेष्टः सम्यक्त्वसंयमयोः ? / / 24 // सत्यं निश्चयनयतो हेतुर्मोक्षस्य नैव बन्धस्य / तेन जिनाऽऽहारकयो-बन्धकतेष्टा कषायेषु // 25 // व्यवहारनये त्विष्टं संयमसम्यक्त्वयोरपि तथात्वम् / येन घृतं दहतीतिव-दुपचारस्तत्र सम्भवति // 26 // शुद्धनयानुगृहीत-व्यवहारनयस्य चेदमाकूतम् / स्वैरी त्वयमाश्रयते-ऽतिशयं सम्यक्त्वसंयमयोः // 27 // नयभेदाद् वाग्भेदो न च दुष्यति कोऽपि शास्त्रकाराणाम् / पार्थापत्यस्थविर-प्रतिवचनानां विभेद इव / // 28 // योगेष्वेव विशेषं वाञ्छन्त्यन्ये तु तारतम्येन / फलभेदात्तद्भेदा-न [हि ?] वचनोपग्रहस्तत्र // 29 // इत्युक्ता बन्धहेतवः बद्धस्य कर्मणः स्या-दुदयः तस्मात् परीषहा दमिनः / उपतिष्ठन्त इतीमे कीर्त्यन्ते ये यथारूपाः // 1 // क्षुदुदन्योष्णं शीतं शय्यारोगौ वधस्तृणस्पर्शः / चर्या मलदंशौ चे-त्येकादश वेदनीयभवाः // 2 // निरवद्याहारस्या-ऽलाभे क्षुद्वेदनाऽतिरेकेऽपि / स्वाध्यायध्यानभृत-स्त्यजतश्चाऽकालभिक्षेच्छाम् // 3 // अन्यूनयतो योगा-नगृह्णतोऽनेषणीयपिण्डं च / यददैन्यात् क्षुत्सहनं क्षुधापरीषहजयः स मतः .. 125 // 4 //