________________ क्षायिकसम्यक्त्वं चे-ज्जिननाम्नो बन्धकं तदा बन्धः। सिद्धानामपि तस्य प्रसज्यते तद्वतां सततम् // 10 // क्षायोपशमिकमीदृश-मिदमिति चेत्तीपूर्वकरणस्य / / प्रथमसमयेऽपि हि भवे-त्तद्बन्धस्य व्यवच्छेदः // 11 // क्षायोपशमिकदर्शन-विच्छेदो ह्याद्यसमयभावीष्टः / जिननाम्नो बन्धस्य त्वमूर्वकरणस्य षष्ठांशे // 12 // तन्न किमपि सम्यक्त्वं जिननाम्नो बन्धकारणं घटते / कारणमाहारकयुग-बन्धस्य न संयमोंऽप्येवम् . // 13 // सामान्येन तथात्वे तस्य भवेत् स प्रमत्तदमिनोऽपि / ' ग्राह्येऽप्रमत्तभावे त्वपूर्वषड्भागपरतोऽपि // 14 // अत्र वदन्त्यनयोरपि कषायस(भे)दा हि कारणं मौलम् / सम्यक्त्वसंयमौ. पुन-रेषां सहकारितां धत्तः // 15 // ते चारभ्य चतुर्थाद् गुणाश्रयात् सप्तमाच्च वर्त्तते(न्ते)। नियता भेदा अर्वागपूर्वकरणस्य षष्ठांशात् .. // 16 // सम्यक्त्वानुगतास्ते बन्धाय स्युः प्रशस्ततां नीताः। . सकलजगदुद्दिधीर्षा-दिसङ्गतास्तीर्थकरनाम्ना(?म्नः) // 17 // तथा हि-लोचनलाभसमानं सम्यक्त्वं प्राप्य चिन्तयति धीमान् / मोहांप्रकरे(मोहान्धकार)गहने संसारे के न दुःखार्ता : ? // 18 // सत्त्वा भ्रमन्ति सत्य-प्यस्मिन् सद्धर्मतेजसि हताशाः / कृच्छ्रादस्मादेनांस्तदनेनोत्तारयामीति // 19 // करुणादिगुणोपेतः परार्थकरणप्रवर्द्धमानमनाः। . स तथैव चेष्टमानः परार्थकृत्तीर्थकृद् भवति // 20 // यस्तु स्वजनादिगतं ध्यायत्येवं तथाऽनुतिष्ठति च। . सावधिकपरार्थरतः स तु धीमान् गणधरो भवति // 21 // 124