________________ आमरणादस्नान-व्रतभाजः स्वेदवलितमलराशेः / यन्मलपीडासहनं तदपनयननिर्विकल्पस्य // 17 // स मलपरीषहविजय: कर्ममलापनयनाय बद्धमतेः / दर्शन-मो(?)बोध-चरित्रा-मलसलिलस्नानशुद्धस्य // 18 // दंशग्रहणं घातक-सत्त्वसमूहोपलक्षणं तेन / दंशमशकादिदंशे-ऽप्यकुर्वतस्तद्वपुर्बाधाम् // 19 // अनिवारयतो व्यजना-दिना च ताननपगच्छतः स्थानात् / यत्तत्पीडासहनं दंशपरीषहजयः स मुनेः // 20 // प्रज्ञाज्ञाने चाद्ये परीषहावष्टमे त्वलाभोत्थः / कर्मणि चतुर्दशैते छद्मस्थानामरागाणाम् // 21 // नहि सूक्ष्मसम्पराये परीषहाः केऽपि मोहनीयभवाः / इत्ययमरागमध्ये ग्राह्यो लोभांशसत्त्वेऽपि // 22 // तत्राङ्गपूर्वतर्क-व्याकरणाध्यात्मशास्त्रनिपुणस्य / . भानीवार्कस्य पुरो मम सर्वे निप्रभा अन्ये // 23 // इत्यस्य ज्ञानमद-स्याऽधिकपुरुषोनताधिया दलनम् / प्रज्ञापरीषहजयः साधोरध्यात्मशुद्धस्य सहमानोऽप्याक्षेपं योऽज्ञोऽपि सुदुष्करे रतस्तपसि / ज्ञानफलेऽविचिकित्सः सोऽज्ञानपरीषह(ह) जयः (जयति) // 25 // योऽलाभेऽपि न दीनो लाभादपि वरमलाभमेव तपः / ध्यायति निरुत्सुकमतिः सोऽलाभपरीषहं जयति // 26 // अष्ट निषद्या याच्या-क्रोशावरतिर्वशा च नग्नत्वम् / सत्कारोऽदर्शनमिति मोहाद् रागिष्वखिलसत्ता(:) // 27 // भय-मान-क्रोधाऽरति-वेद-जुगुप्साश्च लोभ-दृग्मोहौ। क्रमतोऽष्ट हेतवोऽमी प्रोक्ताष्ट(?)परीषहोत्पत्तौ // 28 // 120 // 24 //